________________ स्वयं च विहितं कृत्यं, स्वयं भोक्तव्यमेव भोः। दृश्यते ह्यत्र लोकेऽपि, तद्भोगस्तस्करादिषु // 18 // एकान्तनित्यं गगनादिवस्तु, स्वभावभेदात्किमु कार्यकारि। स्वभावभेदस्तु न तत्र चेद् भवेद्भवेत्तदा तज्जनितार्थसंकरः // 19 // न सर्वथाऽनित्यतया प्रदीपा-दिकस्य नाशः परमाणुनाशात् / तद्दीपतेज:परमाणवोऽमी, आसादयन्त्येव तमोऽणुभावम् // 20 // द्रव्यं तमो यद् घटवत् स्वतन्त्र-तया प्रतीतेरथ रूपवत्त्वात् / नाऽभावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यम्॥ 21 // काणाद शब्दस्तव चेन्नभोगुणो-ऽनातीन्द्रियः स्यात् परिमाणवत्कथम् / गुणोऽपि चेत्तर्हि तदाश्रये च, द्रव्येऽगृहीते किमु गृह्यतेऽसौ // 22 // द्रव्यं हि शब्दो गतियुक्तभावाद्, व्याघातकत्वाच्च गुणान्वितत्वात् / अर्थक्रियाकारितया च किंचा-नुद्भूतरूपादिगुणान्वितोऽसौ // 23 // नभः प्रदेशश्रेणिष्वा-दित्योदयवशाद् दिशाम् / पूर्वादिको व्यवहारो, व्योम्नो भिन्ना न दिक्ततः ... // 24 // आत्मा महापरिमाणा-धिकरणं न संभवी। . असाधारणसामान्य-वत्वेऽनेकत्वतः सति नास्त्यात्मनश्चेत्तव सक्रियत्वं, देशान्तरे चेह भवान्तरे वा। गतिः कथं तर्हि भवेत्तथा च, वायोरिवास्मान्न विभुत्वमस्य // 26 // जीवेऽत्र मध्यं परिमाणमस्त्य-विभुत्वतः कुम्भ इवावदातम् / पर्यायनाशादथ पिण्डभावा-नानित्यता नापि च नित्यतास्मिन्॥ 27 // इति स्फुरद्वाचकधर्मसागर-क्रमाब्जभृङ्ग-कविपद्मसागरः / युक्तिप्रकाशं स्वपरोपकारं कर्तुं चकारार्हतशासनस्थः // 28 // // 25 // 180