________________ न संनिकर्षोऽपि भवेत्प्रमाणं, प्रमाकृतौ तद्व्यभिचारदर्शनात् / अप्राप्यकार्यम्बकसंनिकों, घयदिनाऽर्थेन कथं भवेत् पुनः // 6 // चेत्प्राप्यकार्यम्बकमस्ति यौगात्यासन्नमर्थं हि कथं न पश्यति / तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यान्त्यथ तेऽत्र देशे // 7 // द्विधाप्ययुक्तं हि गतस्य तस्य, वढ्यादिकार्थेषु कथं न दाहः / भूभूधराद्यर्थसमागमेऽपि, नाच्छादनं स्यात्किमु तस्य चक्षुषः // 8 // न तैजसत्वादथ तस्य दाहो वयादिना चेदिति नैवमेतत् / न तैजसं स्यात्तमसो ग्रहाद्यत-स्तेजो न गृह्णाति च तत् क्षणोति॥ 9 // बोधस्य बोधान्तरवेद्यतायां, यौगत्वया नो ददृशेऽनवस्था / सौवग्रहव्यग्रतया पदार्था-ग्रहश्च शम्भोरसमग्रवित्त्वम् // 10 // सकर्तृकत्वेऽवनिभूधरादिषु, साध्येऽत्र हेतुर्बत कार्यभावः / न्यस्तस्त्वया तत्र कथं न दृष्टः शरीरिजन्यत्वमुपाधिरेषः // 11 / / चेदेक एवास्ति हरस्तदाऽसौ, न जीवभावं भजतेऽन्तरिक्षवत् / अथेश्वरश्चेत् स्ववशः कथं न , करोति लोकं सुखिनं समग्रम्॥ 12 // चेत्सर्वगत्वं हि हरस्य मन्यसे-ऽविज्ञानविज्ञानविभक्त आत्मा। मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति तत्पुनः॥ 13 // चिच्छक्तिसंक्रान्तिवशेन बुद्धि-जडापि साङ्ख्यस्य तवाऽजडैव / * आभासते यन्न च युक्तमेत-च्चिच्छक्तिराप्नोति न संक्रमं यतः॥ 14 // तस्या अथो संभवनेऽपि बुद्धि-जडत्वतो न क्रियते सचेतना / सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव भवेत् सचेतनः।। 15 // यदि स्तः प्रकृतेरेव, बन्धमौक्षौ तदा ध्रुवम् / वन्ध्याजस्येव जीवस्या, ऽवस्तुत्वं न भवेत्कथम् // 16 // न स्तश्चेदात्मनो बन्ध-मोक्षौ तर्हि कथं त्वया। भोगीति मन्यते बद्धं, प्रकृत्या भोगमस्ति यत् // 17 // 159