________________ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः // 173 // स्तन्यपानाभिलाषो यत्, प्रथमं बालके भवेत् / ... पूर्वजन्माभ्यासतोऽसौ, तस्मिन् जन्मन्यशिक्षणात् ... // 174 // तस्मानास्तिकवाक्येषु, रतिः कर्तुं न युज्यते। आत्मा ज्ञानी कर्ममुक्तः, परलोकी च बुध्यताम् // 175 / / स चाष्टाङ्गेन योगेन, कर्मोन्मूल्य समन्ततः / आप्नोति मुक्तिं तत्रोच्चैरानन्दं स्वादयत्यहो ! // 176 // सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् / प्राप्तः स केवलज्ञानदर्शनो मोदते मुक्तः // 177 // सर्वथाऽप्यजिघांसूनां, गुरुदेवहितैषिणाम् / अदीर्घमत्सराणां च, मुक्तिरासन्नवर्तिनी // 178 // कालस्वभावनियतिचेतनेतरकर्मणाम् / भवितव्यतया पाके, मुक्तिर्भवति नान्यथा // 179 // बालावबोधनकृते मलधारिसूरिः, श्रीराजशेखर इति प्रथमानबुद्धिः / सम्यग्गुरोरधिगतोत्तमतर्कशास्त्रः, षड्दर्शनीमिति मनाक् कथयांबभूव / // 18 //