________________ उक्ता लिङ्गादयो भेदा, दर्शनानां शिवैषिणाम् / तद्विस्तरस्तु न प्रोक्तो, यथाज्ञानमुदीरितः // 149 // अष्टाङ्गयोगसिद्ध्यर्थं, दध्युलिङ्गानि लिङ्गिनः। .. सर्वे प्राहुस्तमष्टाङ्गं, तत्स्वरूपं वदाम्यथ .: // 150 // अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमः। नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि // 151 // देवताप्रणिधानं च, करणं पुनरासनम् / प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् // 152 // प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समाहृतिः / .. धारणा तु क्वचिद् ध्येये, चित्तस्य स्थिरबन्धनम् // 153 // ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः / समाधिस्तु तदेवार्थमात्राभासनरूपकम् // 154 // एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा / मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः // 155 // निर्वर्तको भवेद् धर्मो, दर्शनानां शिवैषिणाम् / राज्यादिभोगमिच्छूनां, गृहिणां तु प्रवर्तकः // 156 // सर्वसावद्यविरतिधर्मः सिद्ध्यै निवर्तकः / इष्टापूर्तादिको धर्मो, भवेद् भूत्यै प्रवर्तकः // 157 // धर्माधर्मविधातारं, जीवं दर्शनिनो विदुः / नास्तिकास्तं न मन्यन्ते, पुण्यापुण्यबहिर्मुखाः // 158 // तेऽधिपर्षद् वदन्त्येवं, नास्ति जीवो न कर्म च। . धर्माधर्मों न विद्यते, ततः किं नु तयोः फलम् ? // 159 // एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः / . . भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः // 160 // ૧૫ર