________________ // 67 // // 68 // // 69 // // 70 // // 71 // // 72 // वेद एव गुरुस्तेषां, वक्ता कश्चित्परो न हि / ततः स्वयं ते संन्यस्तं, संन्यस्तमिति भाषिणः यज्ञोपवीतं प्रक्षाल्य, पिबन्ति तज्जलं शुचि / एते साङ्ख्यानुगा वेषात्, तत्त्वेऽतिमहती भिदा षट्प्रमाणस्पृशो भाट्टास्तन्नामानि प्रचक्ष्महे। प्रत्यक्षमनुमानं च, शाब्दं चोपमया सह अर्थापत्तिरभावश्च, भाट्टानां षट् प्रमाः स्मृताः / प्रभाकरमते पञ्च, ते ह्यभावं न मन्वते एकमेवाद्वितीयं स्याद्, ब्रह्म तत्त्वं महाफलम् / प्रपञ्चः स्तम्भकुम्भादिस्तेषां शास्त्रे निरर्थकः मीमांसको द्विजन्मैवेत्यतः शूद्रान्नवर्जकः / न पौरुषकृता वेदाः, पारम्पर्येण तद्ग्रहात् मीमांसकानां चत्वारो, भेदास्तेषु कुटीचरः। बहूदकश्च हंसश्च, तथा परमहंसकः कुटीचरो मठावासी, यजमानपरिग्रही। बहूदको नदीतीरे, स्नातो नैरस्यभैक्ष्यभुक् हंसो भ्रमति देशेषु, तप:शोषितविग्रहः / यः स्यात्परमहंसस्तु, तस्याचारं वदाम्यहम् स ईशानी दिशं गच्छन्, यत्र निष्ठितशक्तिकः / तत्रानशनमादत्ते, वेदान्तध्यानतत्परः * परः पर इहोत्कृष्टो, याज्यास्तेषां तु वाडवाः / साङ्ख्यवत्प्रकृतेर्भेदाद्, मोक्षो जीवस्य तन्मते त्रिदण्डी सशिखो यस्तु, ब्रह्मसूत्री गृहच्युतः / सकृत् पुत्रगृहेऽश्नाति, यो याति स कुटीचर: 145 // 73 // // 74 // // 75 // // 76 // // 77 // // 78 //