________________ // 7 // // 8 // . // 9 // // 10 // // 11 // // 12 // ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गसंज्ञिकाः / पश्चाहुः समितीस्तिस्रो, गुप्तीस्त्रियोगनिग्रहात् .. तीर्थङ्कराश्चतुर्युक्ता, विंशतिवृषभादयः / क्लिष्टाष्टकर्मनिर्मुक्ताः, केवलज्ञानभास्करा: महाव्रतधरो धीरः, सर्वागमरहस्यवित् / क्रोधमानादिविजयी, निर्ग्रन्थो गुरुरुच्यते प्रत्यक्षं च परोक्षं च, द्वेप्रमाणे इह स्मृते / तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् धर्माधर्मो नभः कालः, पुद्गलश्चेतनस्तथा / द्रव्यषट्कमिदं ख्यातं, तद्भेदास्त्वागमे स्मृताः जीवाजीवौ तथा पुण्यं, पापमाश्रवसंवरौ। बन्धो विनिर्जरामोक्षौ, नवतत्त्वी मताऽर्हताम् चैतन्यलक्षणो जीवः, स्यादजीवस्ततोऽन्यथा / सत्कर्मपुद्गलाः पुण्यं, पापं दुष्कर्मपुद्गलाः कषाया विषया योगा, इत्याद्या आश्रवा मताः / आश्रवाद्विरमणं यत्, तत् संवर इति स्मृतः शुभाशुभानां ग्रहणं, कर्मणां बन्ध इष्यते / पूर्वोपार्जितकर्मीघजरणं निर्जरा स्मृता कर्मक्षयेण जीवस्य, स्वस्वरूपस्थितिः शिवम् / एषां नवानां श्रद्धाने, चारित्रात् तत्तु लभ्यते श्वेताम्बरा वन्द्यमाना, धर्मलाभं प्रचक्षते / शुद्धां माधुकरी वृत्ति, सेवन्ते भोजनादिषु ख्याताः प्रमाणमीमांसा, प्रमाणोक्तिसमुच्चयः / . नयचक्रवालतर्कः, स्याद्वादकलिका तथा // 13 // // 14 // // 15 // // 16 // . // 18 // 140