________________ द्रव्यं तु ध्रुवमेतदप्यतितरां तेभ्यो न वे(चेद) भिद्यते, यन्न क्वापि विलोक्यते जगति तत् पर्यायपिण्डं विना // 71 / आत्माविज्ञानयोर्भेदाभेदेऽनुभवस्विस्थिते(?)। कर्तृत्वे करणत्वादिलक्ष्मीमपहरेत कः? // 72 // द्वेधा वस्तु विनिश्चयेन भवति प्रत्यक्षमत्यक्षमित्यन्तर्भावविधेश्च निर्न(णीयकृतां शेषप्रमाणामिह। ये त्वेकादिषडन्तमभ्युपगताश्चार्वाकमुख्याः परे, मानं तान्न विमुञ्चतीह बलवान्न व्याप्तिदोषग्रहः // 73 // प्रत्यक्षं विशदं ज्ञानं प्रत्यक्षत्वेन हेतुना। यन्त्रोक्तसाध्यं तन्त्रोक्तसाधनं लिङ्गिकादिवत् // 74 // ज्ञानान्तराव्यवहित[...]मथो विशेष [.......]त्वमस्य विशदत्वमुशन्ति सन्तः / सर्वात्मना क्वचिदिदं क्वचिदंशतः स्याद्, द्रव्यादिकारणकलापवशात् प्रमातुः // 75 // आत्मानमक्षमवदत् प्रति तं गतत्वादध्यक्षमक्षवचनाद्यनपेक्षमेव / स्वावारकत्रुटिकृतां पटुतां दधानं, स्वे गोचरेऽवधिमतो गमकैवलाख्यम् रूपि द्रव्यमवैति सर्वमवधिज्ञानी मनःपर्यय, ज्ञानीमानुषलोकसंज्ञिमनसां जानाति तान् पर्ययान् / द्रव्यं क्षेत्रमतीत-भावि-भवि(व)तः कालान् गुणान् पर्ययान्, सर्वान् केवलिनः क्षतावृतितया जानन्ति पश्यन्ति च // 77 // यच्चेन्द्रियैः स्वविषयेषु मनःसहायैरक्षानपेक्षमनसा च किल क्रियेत / कर्मक्षयोपशमचित्रतया विचित्रं, तव्यावहारिकमिहाहुरवग्रहादि 78 अक्षार्थयोग:किल निर्विशेषसत्त्वाश्रयालोचनदर्शनोत्थम् / संस्थान-वर्णादिविशिष्टवस्तुज्ञानं यद(दा)द्यं तदवग्रहः स्यात्॥ 79 // 138