________________ ख्यात्यन्तराणामतिदुस्थितत्वादन्तर्बहिर्वाऽप्यति(नि)रूपितस्य / अलौकिकार्थस्य वदन्ति केचिल्लोकायताः ख्यातिमहातिरूढाः।। 64 // अर्थस्यालौकिकत्वं.यदि विशदमति लोकमाश्रित्य मिथ्या, ज्ञानेऽप्यन्तर्बहिर्वा विषयमतितरां ख्यापयत्येष तर्हि / . ख्यातिक्षेपादथैवं वदसि वद परं युक्तियुक्ताऽऽर्हतैर्या, ख्यातिः प्रोक्ताऽत्र तां चेद् विघटयसि तदा ज्ञास्यते चाऽऽदिता ते६५ कलुषिनयनवृत्तेश्चाकचिक्यावलोकोल्लसितकलिततारानुस्मृतेः शुक्तिकायाम् रजतमिव(द)मितीदं ज्ञानमत्र प्रमातु[:], कथयति विपरीतख्यातिमाराध्यवर्गः // 66 // तीव्राभ्यासदशा भवेद् यदि ततः प्रामाण्यमस्य स्वतः, सा चेन्नास्ति ततः परादधिगतप्रामाण्यभावात् स्वतः / उत्पत्तौ परतोऽथवाऽर्थविषयच्छित्तौ स्वकार्ये च तत्, स्वभ्यासे....क्वचित्म(त् स ?)तः क्वचिदिदं स्यादन्यतो पाटवे॥ 67 // कर्तृभोक्तृपरिणामिदेहितो, भिन्नभिन्नमविनाशि नाशि यः / आत्मवस्तु न हि मन्यते प्रमासिद्धिमस्य वि(धि)गहो ! विवेकिता६८ निःसन्देहमबाधितं सुखमहं संवेदयामीति यद्, ज्ञानं तन्न शरीरगोचरमहङ्कायस्पदं तन्न तत् / स्थूरोऽस्मीति यदौपचारिकमिदं भृत्येऽपि राजेतिवत्, . स्वात्मान्तःकरणेन बाह्यकरणाभावे [.....]तद् गृह्यते // 69 // रूपादिविज्ञानमिहाश्रितं क्वचिद्, गुणत्वतो रूप-रसादिवत् तथा / ज्ञानाधुपादानविशेषपूर्वकं, कार्यत्वहेतोः कलसा(शा)दिकं यथा 70 आत्मद्रव्यमनन्तपर्ययममी चास्मात् कथञ्चित् पृथक्, . ते यस्मादुदयन्ति केचिदपरे नश्यन्ति चानुक्षणम् / .137