________________ यस्मिन् बाधा भवति विपरीतार्थनिर्णायकेन,... ज्ञानं न स्यात् तदिह विलसद्बाधकं न प्रमाणम्। / आत्मा व्यापी प्रकृतिजनितं विश्वमीशप्रक्लृप्तं, सर्वं नित्यं क्षणिकमथवेत्यादिसंवेदनं वा // 37 // शुक्ताविदं रूप्यमिति प्रतीति, विपर्ययख्यातिमुशन्ति सन्तः। अनेकधा विप्रतिपत्तिरत्र, प्रवादिनां दृष्टिवशात् तथाहि // 38 // प्राभाकराः प्राहुरिहेन्द्रियोत्थमध्यक्षमेकं विषये पुरस्थे। संस्कारजन्या स्मृतिरन्यदस्याः, पूर्वानुभूतं विषयस्वरूपम् // 39 // हेतुप्रभेदाद् विषयप्रभेदाच्चेदं किल ज्ञानयुगं प्रमातुः / . स्मृतिप्रमोषाच्च भवेद् विवेकाख्यातिन तु ज्ञानमखण्डमेतत् // 40 // अत्रोच्यते कारणभेदमात्रात्, कार्यस्य भेदो यदि साधनार्थः / तदा दृगाद्यैर्बहुभिः कृतं सत्, प्राप्तं घटज्ञानमपि ह्यनेकम् // 41 // सामण्यभेदादथ नास्ति सोऽस्मिन्, सामग्रिकैकैव यतोऽत्र तावत् / कार्यस्य भेदाद् यदि चात्र हेतुव्रजान्यताऽन्योन्यसमाश्रयस्तत्॥ 42 // संस्कारेन्द्रिययोविलोकितमथान्यत्र प्रभुत्वं स्मृति प्रत्यक्षप्रभवे इहापि सुवचस्तत् कार्यभेदस्ततः / दत्तस्तर्हि जलाञ्जलिस्तिश्र(?)सनाथः प्रत्यभिज्ञाविदोऽप्येकत्वे यदिहापि सैव सकला तत्कार्यता लोक्यते // 43 // हगादयो दोषवशाच्च रूप्यरूपेण शुक्ति खलु दर्शयन्ति / तस्मादसिद्धो विषयप्रभेदः, सिद्धं ततो ज्ञानमखण्डमेतत् // 44 // ज्ञानस्य सर्वस्य सगोचरत्वे, भङ्ग्या कयाचिद् विहितप्रतिष्ठे। बाह्यार्थनिह्वेतृमनोरथद्रून्, विपर्ययख्यातिर(रु)न्मूलयिष्यति // 45 // आहुर्मध्यमका इदं रजतमित्यख्यातिरेषा यतो, रूप्यख्यातिमदत्र नो सजति न भ्रान्तित्वमस्यान्यथा। 134