________________ ज्ञानस्य स्वप्रकाशत्वं केवलव्यतिरेकिणा। अर्थप्रकाशकत्वेन सिद्धसङ्केतकः सुधीः // 18 // यच्चोच्यते ज्ञानमिहापरेण, ज्ञानेन वेद्यं खलु मेयभावात् / / घटादिवत् तत्र महेशबुद्ध्या, नैकान्तिकत्वे स्फुटमेव हेतोः // 19 // पृथग्जनज्ञानमपेक्ष्य साधने, न च स्थितिर्वा व्यभिचार एव वा। सुवेदनेऽध्यक्षबलाच्च सुस्थिते, हेतोरकिञ्चित्करता निवार्या // 20 // अन्तर्मुखो यः प्रतिभासभेदः, स साधयेद् ज्ञानगतं प्रकाशम् / बहिर्मुखस्त्वर्थगतं तदेवं, ज्ञानं प्रसिद्धयेत् स्व-परप्रकाशम् // 21 // न च द्वयेऽपि प्रतिभासमाने, शक्योऽपलापोऽन्यतरस्य कर्तुम् / . प्रत्यक्षता संविदि चात्र मुख्या, ज्ञेये पुनः स्यादुपचारवृत्त्या // 22 // यद् यस्मिन्नुपलब्धिलक्षणगताकारेण नाऽऽभासते, वाच्यं तन्न तदात्मकं किल यथा कुम्भः पयद्याकृतिः। भासन्ते च घयदयो न हि जडा भावाः क्वचित् संविदा, कारेणेति विभिन्नमूर्तय इमे मान्या मनीषाधनैः .. // 23 // [..................]ते ज्ञानमेव यदिहावभासते / तद्यथा सुखप्रमुखमवभासते च कुम्भादिस्तत् कुतस्त्याऽर्थसिद्धिः? (?) यद् येन सहोपलभ्यते, नियमात् तन्न ततो विभिद्यते। चन्द्राच्चन्द्रो यथा परः, सर्वं वस्तु तथा च संविदा // 25 // वेद्यते यदिह तन्न भिद्यते, ज्ञानतः खलु तदीयरूपवत् / वेद्यते च सकलं घटादिकं, बाह्यवस्तु सदिति भ्रमस्ततः // 26 // संवेद्यमानत्वमिदं स्वतश्चेदसिद्धमर्थस्य तथा प्रतीतेः। " अथापरस्माद् बहिरप्यसिद्धेविरुद्धमन्या च गतिर्न काचित् // 27 // ज्ञानस्य स्व-परप्रकाशपरतापक्षेऽपि सम्भाव्यते, नैयत्येन सहोपलम्भ इति सन्देहादनैकान्तिकः / 132