________________ अर्थस्य प्रमितौ न साधकतमः स्यात् सन्निकर्षो यतः, स्वस्यासौ प्रमितौ न साधकतमः कुम्भादिवत् कर्हिचित् / अर्थश्चाप्रमितः कथं मतिधनैस्त्यज्येत गृह्येत वा ?, सम्यग्ज्ञानमतः प्रमाणमपरं नो सन्निकर्षादिकम् // 10 // प्रदीप-नयनादिभिर्न च भवत्यनैकान्तिको, न साधकतमा यतस्त इह मुख्यवृत्या मितौ / परम्परितकारणे करणता यदि त्विष्यते, तदा करणलक्षणे बत ! जलाञ्जलिर्दीयताम् // 11 // ये सन्निकर्षमवदन् निपुणाः प्रमाणमध्यक्षता किमु न तैर्नभसः प्रपन्ना ? / यद् भौतिकेन नयनेन वि[हा] यसस्तैः, शाशक्यते स्खलयितुं नहि सन्निकर्षः . // 12 // भूषा(रूपा)भावान्नभसि न यदि स्यादणौ तत्र [....]स्या नुद्भूतत्वे नयनजमले स्यातू समुद्भूतरूपे। तस्मात् स्वार्थग्रहणनियता ज्ञानरूपैव शक्ति आतुःकर्मापचयजनिता मुख्यवृत्त्या प्रमाणम् // 13 // प्रमाणाभावतो सत्त्वे संयोग-समवाययोः / सन्निकर्षाभिदाख्यानं वान्ध्येयगुणवर्णनम् / // 14 // दण्डीति मतिस्त्वन्मतसंयोगविमुक्तवस्तुभेदकृता / संयुक्ताकारत्वाद् युक्ता प्रासादबुद्धिरिव' // 15 // यद् यस्मानो भिन्नं समवायस्तत्रं तस्य नैव यथा / स्वात्मनि पटनवतन्तु[......]विशेषेभ्यः पये भिन्नः // 16 / / यद् वृश्य (दृश्यं) सद् यस्माद् व्यतिरेकेणोपलभ्यते न ततः / तदभिन्नं स च तेभ्यस्तथाऽन्यथोच्छिद्यते भेदः // 17 // . 131