________________ ज्ञपारिज्ञापूर्वकः पापव्यापारपरिहारः संयमः उपाधिमात्रध्वंसो मोक्षः // 16 // // 17 // // 1 // // 2 // // 3 // // 4 // आचार्यप्रवरश्रीदेवभद्रसूरिसूत्रितः ॥प्रमाणप्रकाशः॥ सन्न्यायनगरारम्भमूलसूत्रसनाभयः / श्रीनाभेयस्य नन्द्यासुर्देशनावचनकमाः , ज्ञान-ज्ञेयस्वरूपं यत् कलयत्येकहेलया। . त्रैलोक्यमखिलं ज्योतिस्तदार्हतमहं स्तुवे उपादेयमुपादातुं हेयं हातुमुपास्यते। प्रमाणमेव यत् सद्भिस्तदेवातः प्रकाश्यते ज्ञानं स्वार्थविनिश्चयरूपमबाधं प्रमाणमेतच्च / ज्ञातुः पृथक् कथञ्चित् प्रामाण्यं च स्वतः परतः प्रत्यक्षमथ परोक्षं द्विधैव [तत्] तत्र चादिमं द्वेधा / नैश्चयिकमथ व्यवहारकारि पूर्वं पुनस्त्रेधा अवधि-मनःपर्यय-केवलानि षोढा द्वितीयमन्यत् तु / प्रत्यक्षादिनिमित्तं परोक्षमेतच्च पञ्चविधम् स्मरणं प्रत्यभिज्ञानं तर्को लैङ्गिकमागमः / विषयः फलमाभासाः स्याद्वादो नय-दुर्नयौ वादन्यायस्ततः सर्ववित्त्वे [च] भुक्तिसम्भवः / पुं-स्त्रियोश्च समा मुक्तिरिति शास्त्रार्थसङ्ग्रहः प्रमाणं ज्ञानं प्रामाण्यस्यान्यथानुपपत्तितः। . नाज्ञानं सन्निकर्षादि न साधकतमं यतः 130 // 5 // // 7 // . // 8 // // 9 //