________________ प्रागेव देवान्तरसंश्रितानि, रागादिरूपाण्यवमान्तराणि / न मोहजन्यां करुणामपीश !, समाधिमाध्यस्थ्ययुगाश्रितोऽसि 18 // जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथा तथा वा पतयः प्रवादिनाम् / त्वदेकनिष्ठे भगवन् ! भवक्षयक्षमोपदेशे तु परं तपस्विनः / / 19 // वपुश्च पर्यङ्कशयं श्लथं च, दृशौ च नासानियते स्थिरे च / न शिक्षितेयं परतीर्थनाथैजिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम्॥ 20 // यदीयसम्यक्त्वबलात् प्रतीमो, भवादृशानां परमस्वभावम् / कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय // 21 // अपक्षपातेन परीक्षमाणा, द्वयं द्वयस्याप्रतिमं प्रतीमः / यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् // 22 // अनाद्यविद्योपनिषन्निषण्णैर्विश्रृङ्खलैश्चापलमाचरद्भिः / / अमूढलक्ष्योऽपि पराक्रिये यत्, त्वत्किङ्करः किं करवाणि देव ! 23 विमुक्तवैव्यसनानुबन्धाः, श्रयन्ति यां शाश्वतवैरिणोऽपि / परैरगम्यां तव योगिनाथ !, तां देशनाभूमिमुपाश्रयेऽहम् // 24 // मदेन मानेन मनोभवेन, क्रोधेन लोभेन च सम्मदेन / पराजितानां प्रसभं सुराणां, वृथैव साम्राज्यरुजा परेषाम् // 25 // स्वकण्ठपीठे कठिनं कुठारं, परे किरन्तः प्रलपन्तु किञ्चित् / / मनीषिणां तु त्वयि वीतरग !, न रागमात्रेण मनोऽनुरक्तम्॥ 26 // सुनिश्चितं मत्सरिणो जनस्य, न नाथ ! मुद्रामतिशेरते ते / माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचे च समानुबन्धाः 27 इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे / न वीतरागात् परमस्ति दैवतं, न चाप्यनेकान्तमृते नयस्थिति:२८ // न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु / / यथावदाप्तत्वपरीक्षया तु, त्वामेव वीर ! प्रभुमाश्रिताः स्मः 29 // .. . 117