________________ जगत्यनुध्यानबलेन शश्वत्, कृतार्थयत्सु प्रसभं भवत्सु / किमाश्रितोऽन्यः शरणं त्वदन्यः, स्वमांसदानेन वृथा कृपालुः 6 // स्वयं कुमार्गग्लपिता नु नाम, प्रलम्भमन्यानपि लम्भयन्ति / सुमार्गगं तद्विदमादिशन्तमसूययाऽन्धा अवमन्वते च प्रादेशिकेभ्यः परशासनेभ्यः, पराजयो यत्तव शासनस्य / खद्योतपोतद्युतिडम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य . // 8 // शरण्य ! पुण्ये तव शासनेऽपि, संदेग्धि यो विप्रतिपद्यते वा / स्वादौ स तथ्ये स्वहिते च पथ्ये, संदेग्धि वा विप्रतिपद्यते वा 9 हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः / नृशंसदुर्बुद्धिपरिग्रहाच्च, ब्रूमस्त्वदन्यागममप्रमाणम् // 10 // हितोपदेशात् सकलज्ञक्लृप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च / पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् // 11 // क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाघ्रिपीठे लुठनं सुरेशितुः / इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ? // 12 // तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवानुकूलम् / उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा . // 13 // परःसहस्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा / तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् 14 अनाप्तजाड्यादिविनिर्मितित्व-सम्भावनासम्भविविप्रलम्भाः / परोपदेशाः परमाप्तक्लृप्त-पथोपदेशे किमु संरभन्ते ? // 15 // यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः / . न विप्लवोऽयं तव शासनेऽभूदहो ! अघृष्या तव शासनश्री:१६ // देहाद्ययोगेन सदाशिवत्वं, शरीरयोगादुपदेशकर्म / परस्परस्पधि कथं घटेत, परोपक्लृप्तेष्वधिदैवतेषु लाधिदेवतेष // 17 // 116