________________ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिढुवानस्तदाभासः // 21 // यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादि / सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः // 23 // यथा यत्सत्तद्रव्यं पर्यायो वेत्यादि // 24 // यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः 25 यथा चार्वाकदर्शनम् . . // 26 // पर्यायार्थिकञ्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च // 27 // ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः यथा सुखविवर्तः सम्प्रत्यस्तीत्यादि सर्वथा द्रव्यापलापी तदाभासः // 30 // यथा तथागतमतम् // 31 // कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः . // 32 // यथा बभूव भवति भविष्यति सुमेरुरित्यादि // 33 // तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः .. // 34 // यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भित्रकालशब्दत्वात्तादृक्सिद्धान्यशब्दवदित्यादि पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थमभिरोहन् समभिरूढः // 36 // इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात्पुरन्दर इत्यादिषु यथा // 37 // पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः // 38 // यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि // 39 // 112