________________ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वात् यः पुनरादेयवचनः स वीतरागस्तद्यथा-शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् // 75 // न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वात् / यस्तु वीतरागः स करुणास्पदेषु परमकृपयासमर्पितनिज- पिशितशकलस्तद्यथा तपनबन्धुरितिसन्दिग्धोभयव्यतिरेकः तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेष्वपि- . परमकृपयानपितनिजपिशितश- कलवत्त्वस्य च व्यावृत्तेः सन्देहात् // 76 न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वाद्यः पुनर्वीतरायो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः . // 77 // अनित्यः शब्दः कृतकत्वात् आकाशवदित्यप्रदर्शितव्यतिरेक: 78 // अनित्यः शब्दः कृतकत्वात् यदकृतकं तन्नित्यं यथाकाशमिति विपरीत- व्यतिरेकः उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ // 80 // यथा परिणामी शब्दः कृतकत्वात् / यः कृतकः स परिणामी यथा कुम्भः इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च // 81 तस्मिन्नेव प्रयोगे तस्मात्कृतक: शब्द इति तस्मात्परिणामी कुम्भ इति च अनाप्तवचनप्रभवं ज्ञानमागमाभासम् // 83 // यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत गच्छत शावकाः // 84 // प्रत्यक्षमेवैकं प्रमाणमित्यादिसङ्घयानं तस्य सङ्ख्याभासम् // 85 // सामान्यमेव विशेष एव तद् द्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् // 87 // 110 // 79 //