________________ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकल: कलशवदित्युभयधर्मविकलः // 62 // रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा // 63 // मरणधर्मायं रागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा // 64 // नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा // 65 रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः // 66 // अनित्यः शब्दः कृतकत्वाद्धटवदिति अप्रदर्शितान्वयः // 67 // अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः // 68 // वैध\णापि दृष्टान्ताभासो नवधा // 69 // असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः,सन्दिग्धोभयव्यतिरेकः, अव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च॥ 70 // तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनर्धान्तं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानाद्धान्तत्वस्यानिवृत्तेः निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः 72 नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न सँस्त द्यथा स्तंभ इति असिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः असर्वज्ञोऽनातो वा कपिलोऽक्षणिकैकान्तवादित्वात् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत. इति सन्दिग्धसाध्य व्यतिरेक: सुगतेऽसर्वज्ञताऽनाप्तत्वयोः साध्यधर्मयोावृत्तेः सन्देहात् // 74 // 100