________________ // 4 // तृतीयः परिच्छेदः अस्पष्टं परोक्षम् / स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात्तत्पञ्चप्रकारम् // 2 // तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम् 3 तत्तीर्थकरबिम्बमिति यथा अनुभवस्मृतिहेतुकं तिर्यगूर्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् // 5 // यथा तज्जातीय एवायं गोपिण्डः, गोसदृशो गवयः / स एवायं जिनदत्त इत्यादि // 6 // उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः // 7 यथा यावान् कश्चित् धूमः स सर्वो वह्नौ सत्येव भवतीति तस्मि सत्यसौ न भवत्येवेति. ' अनुमानं द्विप्रकारं स्वार्थ परार्थं च // 9 // तत्र हेतुग्रहणसम्बन्धस्मरणकारण साध्यविज्ञानं स्वार्थम् // 10 // निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः // 11 // नतु विलक्षणकादिः // 12 // तस्य हेत्वाभासस्यापि संभवात्।। 13 / / अप्रतीतमनिराकृतमभीप्सितं साध्यम् // 14 / / शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिप्रत्त्यर्थमप्रतीतवचनम् प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् 16 // अनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादानम् // 17 // व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेः // 18 // // 8 //