________________ // 63 // न रागानः स्तोत्रं भवति भव-पाश-च्छिदि मुनौ न चाऽन्येषु द्वेषादपगुण-कथाऽभ्यास-खलता। किमु न्यायाऽन्याय-प्रकृत-गुणदोषज्ञ-मनसां हिताऽन्वेषोपायस्तव गुण-कथा-सङ्ग-गदितः इति स्तुत्यः स्तुत्यैत्रिदश-मुनि-मुख्यैः प्रणिहितैः . स्तुतः शक्तया श्रेयःपदमधिगतस्त्वं जिन ! मया। महावीरो वीरो दुरित-पर-सेनाऽभिविजये विधेया मे भक्तिं पथि भवत एवाऽप्रतिनिधौ // 64 // पू.आ.श्रीवादिदेवसूरिविरचितः ॥प्रमाणनयतत्त्वालोकालङ्कारः // - प्रथमः परिच्छेदः प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते // 1 // स्वपरव्यवसायि ज्ञानं प्रमाणम् // 2 // अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणमतो ज्ञानमेवेदम् 3 न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतमत्वानुपपत्तेः // 4 // न खल्वस्य स्वनिर्णीतौ करणत्वं स्तम्भादेरिवाऽचेतनत्वात् / नाप्यऽर्थ - निश्चितौ स्वनिश्चितावऽकरणस्य कुम्भादेखि तत्राऽप्यकरणत्वात् // 5 तद्व्यवसायस्वभावं समारोपपरिपन्थित्वात् प्रमाणत्वाद्वा अतस्मिंस्तदध्यवसायः समारोपः स विपर्ययसंशयाऽनध्यवसायभेदात् त्रेधा विपरीतैककोटिनिष्टङ्कन विपर्ययः // 9 // // 6 // // 7 // // 8 //