________________ एकान्त-धर्माऽभिनिवेश-मूला रागादयोऽहंकृतिजा जनानाम् / एकान्त-हानाच्च स यत्तदेव स्वाभाविकत्वाच्च समं मनस्ते // 51 // प्रमुच्यते च प्रतिपक्ष-दूषी जिन ! त्वदीयैः पटुसिंहनादैः / एकस्य नानात्मतया ज्ञ-वृत्तेस्तौ बन्ध-मोक्षौ स्वमतादबाह्यौ // 52 // आत्मान्तराऽभाव-समानता न वागास्पदं स्वाऽऽश्रय-भेद-हीना / भावस्य सामान्य-विशेषवत्त्वादैक्ये तयोरन्यतरन्निरात्म // 53 // अमेयमश्लिष्टममेयमेव भेदेऽपि तवृत्त्यपवृत्तिभावात् / वृत्तिश्च कृत्स्नांश- विकल्पतो न मानं च नाऽनन्त-समाश्रयस्य // 54 / / नाना-सदेकात्म-समाश्रयं चेद् अन्यत्वमद्विष्ठमनात्मनोःक्व / विकल्प-शून्यत्वमवस्तुनश्चेत् तस्मिन्नमेये व खलु प्रमाणम् // 55 // व्यावृत्ति-हीनाऽन्वयतो न सिद्ध्येद् विपर्ययेऽप्यद्वित्तयेऽपि साध्यम् / अतद्व्युदासाभिनिवेश-वाद: पराऽभ्युपेताऽर्थ-विरोध-वादः // 56 // अनात्मनाऽनात्मगतेरयुक्तिर्वस्तुन्ययुक्तर्यदि पक्ष-सिद्धिः / अवस्त्वयुक्तेः प्रतिपक्ष-सिद्धिः न च स्वयं साधन-रिक्त-सिद्धिः॥५७ निशायितस्तैः परशुः परघ्नः स्वमूर्ध्नि निर्भेद-भयाऽनभिज्ञैः / वैतण्डिकैर्यैः कुसृतिः प्रणीता मुने! भवच्छासन-दृक्-प्रमूढैः // 58 // भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते। प्रमीयते च व्यपदिश्यते. च वस्तु-व्यवस्थाऽङ्गममेयमन्यत् // 59 // विशेष-सामान्य-विषक्त-भेदविधि-व्यवच्छेद-विधायि-वाक्यम् / अभेद-बुद्धेरविशिष्टता स्याद् व्यावृत्तिबुद्धेश्च विशिष्टता ते // 60 // सर्वान्तवत्तद्गुण-मुख्य-कल्पं सर्वान्तशून्यं च मिथोऽनपेक्षम्। / सर्वाऽऽपदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव // 61 // कामं द्विषन्नप्युपपत्तिचक्षुः समीक्ष्यतां ते समदृष्टिरिष्टम् / / त्वयि ध्रुवं खण्डित-मान-शृङ्गो भवत्यभद्रोऽपि समन्तभद्रः // 62 / / .