________________ सप्ताप्याप्नुत सप्तभूमिकगृहे तत्त्वे वसन्तु स्वयं, सत्सप्तस्वरगीतकैतवमुवाचाष्टाहिका सप्तमी // 151 // मुक्त्वाष्टौ मदकारणान्यविरतं सत्प्रातिहार्याष्टकं, देवं पूजय पूजयाष्टविधया येनैष तुष्टः पदम् / तद्वो यच्छति यत्र नास्ति पतनं दुष्टाष्टकर्मापदा, . चष्टे माङ्गलिकाष्टदीपक्रमिषादष्टाहिकाप्यष्टमी // 152 // नैतेऽप्येत इवोपमानविगमादष्टाहिका वासरा, एकैकोच्चकला इतीन्दुसदृशाः किञ्चित्त्वभूवनिमे।। श्राद्धस्वान्तपयोधिनेत्रकुमुदश्रेणीचकोरेक्षणोल्लासाय स्मरतापमोहतिमिरोच्छित्यै यतोऽहनिशम् // 153 // कल्याणकं भगवतां धुरि यत्र चाभूत, श्रेष्ठः स एव दिवसः पुनरागतोऽद्य श्रीवीरमोक्षदिवसोद्भवदीपपर्व, यद्वत्ततः सुकृतिनोऽत्र महोऽनुवर्षम् 154 सद्ध्यानोज्ज्वलदीपकः प्रविलसत्स्वाध्यायमेरात्रिकः, कल्पाचारसुभोजनः सुगुणवाक्ताम्बुलशोभाशुभः / अश्रीनिर्गमलक्ष्म्युपागमजयज्येष्ठावनामोत्तरः, शीलालङ्कृतिभाग् मुदे भवतु वोऽर्हद्धर्मदीपोत्सवः // 155 // व्याख्यानं श्रुतदुग्धसारमधिकं स्निग्धं निपीयादरान् मात्यातूरसिता मुधा शमदधिश्रेयोधृतोच्छ्रायकृत् / अस्मात्तस्य समर्थनाद्य तदिदं कालेन भव्यैः पुनः, सम्यक्त्वाङ्गविवृद्धिकृबहुतृषा पेयं तमस्तापभित् // 156 / / सिद्धान्ताम्बुधिसंभवेऽद्य विरते व्याख्याघने सद्रसै- . ईष्टान्तैः सकषायतापजनहृद्भूमि शमित्वाभितः / सप्तक्षेत्रधरासु वित्तवपनं कुर्वन्तु वःपुण्यतो . निःसप्तव्यसनेतिभीति विविधं शस्यं यथा स्याज्जनाः // 157 //