________________ व्याख्यानाम्बुधरोपदेशसलिलैः सुश्राद्धचेतःसरः पूर्तिःकीर्तिनदीततिर्मलरजश्छित्तिश्च यत्राभवत् / बालश्रावकभेककेकिपठनस्वाध्यायकोलाहलं, सत्कृत्यानफलाय वो भवतु तद्वर्षाचतुर्मासकम् // 158 // धने शीतोष्णकाले प्रथमवयसि तत्कर्म कुर्वीत विद्वान्, येनान्ते स्याम्सुखीतोवयमपि तदहोऽवेत्य कुर्मो विहारम् / .. नानार्हत्तीर्थयात्रा श्रुतधरनमनं संशयान्तः श्रुतायः, शुद्धानोपध्यवाप्तिः प्रवचनमहिमा मूढबोधाद्यतो यत् // 159 // चातुर्मासिकमेकमारणदिनं नूनं फलं प्राप्नुयात् भार्षिकमप्यवाप न कथं श्रेयांस एकादपि / स्थानस्थाननिखातकोटिविभवः कोटीश्वरः किं भवेत्, कोटिमूल्यमहामणि करतले कि खेलयन्नापरः // 160 // तीर्थेशैर्वतधर्मपोषणपुरस्कारात्परामुन्नति नीतं यच्च ददाति भूतिमतुलां श्रीशालिभद्रादिवत् / तनिःसत्त्वतिरस्क्रियालघु कलौ दानं त्वयोल्लासितं, के: कैर्भद्र पुनःफलिष्यति फलैस्तत्त्वैजिनो वेत्ति तत् // 161 // मान्यस्तीर्थपतेः परिग्रह इव मापस्य सङ्घो ध्रुवं, धन्यो यस्य गृहाङ्गणं स चरणाम्भोजैः पुनीतेतराम् / कि ब्रूमः फलमस्य तद्भरतवद्योऽर्चत्यमुं संमृदात्, श्रीरप्यस्य गृहे स्थिरा प्रतिभुवः श्रीजैनपादा इमे // 162 // नीत्वा क्षेत्रे पवित्रे घनसमयममी संयता राजहंसा स्तत्तत्स्थाने विजह्वःसुकृतिभिरनिशं जाड्यशीतं च भिन्नम् / शीलक्षोमैस्तपोग्निव्रतनियमगृहैर्भावनागन्धतैलैयंत्राचार्यार्कगोभिर्हिमसमयचतुर्मासकं तन्मुदे स्तात् // 163 //