SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चातुर्मासिकपर्वसंभवतपोवह्निस्तदावश्यक- . भ्रश्यत्कर्मदलोच्छ्रितस्थगणकस्तोमेऽत्र भस्मीकृते / प्रातर्वन्दनके मुखांशुकविधिव्याजाद्विकीर्णेऽभितः, धन्योऽर्हद्गुणफाल्गुनोऽमलरजाः स्यादागमाम्भःप्लवैः // 164 // स्पर्धा महत्सु नरवाक् शुकवत् क्लमाय, सत्यं पुनः पदमुपैति जनः समर्थः / मा हि पञ्चमगुणस्थितिमुक्तियोग्याः, श्राद्धेषु तज्जिनमहेऽनुचितेन्द्रताऽपि , // 165 // देवैर्जिनस्य यदि जन्ममहादि चक्रे, न श्रावकैरनुकृतिः क्रियतां तदेषाम् स्वःशक्रदन्तिमदतुम्बरुगानरम्भानृत्यादि चेद्भविन कोऽपि ततः करोतु जैनार्चयापि नवभिः कुसुमैरशोक उच्चोच्चसंपदभवनवसेवधीशः। लक्षार्चनेन तु फलं जिन एव वेत्ति, सद्भस्थंकालघनसिक्तसुबीजवत्तत् आश्चर्यकारिफलमप्यतुलं प्रदास्य-त्याश्चर्यभङ्गिभिरियं विहिता जिनार्चा कार्यं हि कारणगुणेन भवेत्तु चित्रं, पुष्पैरिमैत्रिदशवृक्षफलप्रसूतिः अप्येकजैनभवनस्नपनादिना यद्भावादुपार्जि सुकृतं शिवकृद्भवद्भिः। स्थानं क्व चैत्यपरिपाटिकयाजितस्य ज्ञातं महत्स्तुतिकृतां हृदयानि सन्ति अद्योदियाय सुदिनो भवतां कला वा, जज्ञे यदल्पवसुनापि हि भूरिलाभः चैत्यावलीषु यदुपार्जि शिवाय पुण्यं, भक्त्या सुलभ्यदलपुष्पफलोपहारैः शुद्धं तपः केवलमप्युदारं, सोद्यापनस्यास्य पुनः स्तुमः किम् / हृद्यं पयो धेनुगुणेन तत्तु, द्राक्षासिताक्षोदयुतं सुधैव // 171 / / सिंहस्तपःप्रक्रम एव तावत्, दुःकर्मदन्तावलमण्डलीनाम् / तदद्य तस्मिन् प्रखरानिवेशो, यद्वद्यदुधापनविस्तरोऽयम् // 172 / / वृक्षो यथा दोहदपूरणेन, कायो यथा सद्रसभोजनेन / विशेषशोभां लभते यथोक्तेनोद्यापनेनैव तथा तपोऽपि // 173 // टर
SR No.004462
Book TitleShastra Sandesh Mala Part 12
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages382
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy