________________ भूपच्छत्रगुरूदरावृतिरथाद्येषूपयोगान्मया, वंशत्वे कटसुंडकादिषु जनाश्चाराधिता भूरिशः / नैतत्क्वापि महत्त्वमापि विलसत्केत्वग्रहस्तो रणत्, घण्टावाग्भिरिति ध्वजस्त्वरयते वो देवताराधने // 174 // नैवेद्यैः संजलैः शिवाध्वसुखदं स्पष्टं समं शम्बलं, धूपेनोर्ध्वगतिः सुगन्धितदिशावासेन शुभ्रं यशः / नृस्वर्गादिफलं फलैश्च कलमै नाटकार्चात्मनः, पुष्पैर्लोकशिरः स्थितिः शिवतनुर्दीपैर्जिनार्चाफलम् // 175 // आदर्शोदितकेवलर्द्धिरसमैश्वर्यश्च भद्रासनाद् ब्रह्माण्डस्य शरावसंपुटतनोर्य:कामकुम्भः पुरः / श्रीवत्साङ्गमिव स्फुटश्च तनुते नित्योत्सवःस्वस्तिकानन्दावर्तवदद्भुताकृतिकृतानन्दः स वोऽव्याज्जिनः // 176 // मुक्तेःसौख्यप्रमाणं भवतु सुरगिरिःसोऽस्ति वा योजनानां लक्षं वार्द्धिःस्वयंभूरमण इति पुनःसोऽस्ति रज्जुप्रमाणः / लोकातीतं तदेतज्जिनपतिरपि वा नोपमातुं प्रगल्भो; भूभृद्भोगानुभूतिं स्वजनमनुवदन् यद्वदज्ञः पुलिन्दः // 177 // यत्पादाम्बुजभृङ्गतामविरतं भेजुस्त्रिलोकीजना, यश्चिन्तामणिवत्तदीयरुदयाभीष्टार्थसंपादकः / सोप्यर्हन्महितो यदर्थमनिशं तत्तत्तपस्तप्तवा / नाभीष्टं हृदि कस्य कस्य तदहो नैःश्रेयसं मङ्गलम् // 178 // श्री वज्रसेनस्य गुरोस्त्रिषष्टिसारप्रबन्धस्फुटसद्गुणस्य / शिष्येण चक्रे हरिणेयमिष्टा सूक्तावली नेमिचरित्रका // 179 // .. . 63