________________ श्रीहेमविजयगणिविरचितः / . ॥कस्तूरीप्रकरः // कस्तुरीप्रकर: कृपाकमलग्गल्लस्थले षट्पदव्रातः सातसरोजसुन्दररसे खड्गः स्मरध्वंसने। . कल्याणद्रुमसेचने घनचयो लावण्यवल्ल्यङ्कुरः केशानां निचयः पुनातु भुवनं श्रीनाभिसूनोर्लसन् // 1 // वाग्देवीवरवित्तवित्तपतय: कारुण्यपण्यापणप्राविण्यप्रसिताः प्रसत्तिपटवस्ते सन्तु सन्तो मयि / / आमोदः सरसारुहामिव मरुत्पूरैः प्रथां प्राप्यते वाचां विश्वसभासु यैर्जडभुवामप्युल्लसद्भिर्गुणः अमृतमब्धिसुता च दृशोः सतां, वसति चेतसि निश्चय एष नः / / विबुधता पुरुषोत्तमतापि यत्, स्थितिमुपैति नरे तदूरीकृते // 3 // सौरभ्यादिवसूनमोदनमिव स्वादप्रसादादिह, स्निग्धत्वादिव गोरसं पिकयुवा सोत्कण्ठकण्ठादिव / वाजिराजि? जवादिवौषधरसो दुर्व्याधिरोधादिव श्लाघामेति जनो जनेषु नितरां पुण्यप्रभावोदयात् तोयैरेव पयोमुचां भवति यन्नीरन्ध्रनीरं सर: पादैरेव नभोमणेर्भवति यल्लोकः सदालोकवान् / तैलैरेव भवेदभङ्गुरतरज्योतिर्मणिः सद्मनः पुण्यैरेव भवेदभङ्गविभवभ्राजिष्णुरात्मात्र तत् न बहुधर्मविनिर्मितिकर्मठे मनुजजन्मनि यैः सुकृतं कृतम्। गृहमुपेयुषि तैरधनैः स्थितं त्रिदशशाखिनि वाञ्छितदायिनि // 6 // भोज्ये निर्जरराजभोज्यमधुरे हालाहलोऽक्षेपितैर्दुग्धे स्निग्धरसे रसेन निदधे तैरालनालं जलम् / // 4 //