________________ // 7 // // 8 // // 9 // क्षिप्तोच्चैः शिशिरे च चन्दनरसे तैरात्मगुप्ता जडै यधर्मेऽनवधानता प्रविदधे स्वर्गापवर्गप्रदे / / सालं स्वर्गसदां छिनत्ति समिधेश्चूर्णाय चिन्तामणि वही प्रक्षिपति क्षिणोति तरणीमेकस्य शङ्कोः कृते / दत्ते देवगवीं स गर्दभवधूग्राहाय गर्हागृहं य:संसारसुखाय सूत्रितशिवं धर्मं पुमानुज्झति भूयांसः प्रमदाकटाक्षविशिखैर्विद्धाः स्मरासङ्गिनः सन्त्येके च सहस्रशः श्रितधनाः सक्षोभलोभाकुलाः / एतद्दाननिदानमत्र सुकृतं मत्वा सृजन्ति त्रिधा येऽत्यर्थं पुरुषार्थमन्यमनिशं ते केऽप्यनल्पेतराः मणिरिव रजःपुओ कुञ्ज वनेचरगह्वरे पुरमिवतरुच्छायानच्छामराविव निस्तरौ / जडिमकुसुमारामे ग्रामे सभेव वचस्विनां कथमपि भवे क्लेशावेशे मतिः शुचिराप्यते दानाद्यं सुकृतं कषायविजयं पूजां च पित्रोर्गुरो / देवानां विनयं नयं पिशुनतात्यागं सतां संगतिम् / हृच्छुद्धिं व्यसनक्षतीन्द्रियदमाऽहिंसादिधर्मान् गुणान् वैराग्यं च विदग्धतां च कुरु चेद्भोक्तुं विमुक्तिं मनः ख्याति पुष्यति कौमुदीमिव शशी सूते च पूतात्मतामुद्योतं द्युतिमानिवावति सुखं तोये तडित्वानिव / चातुर्यं च चिनोति यौवनवयः सौभाग्यशोभामिव क्षेत्रे बीजमिवानघे विनिहितं पात्रे धनं धीधनैः ये शीलं परिशीलयन्ति ललितं ते सन्ति भूयस्तरास्तप्यन्ते ननु ये सुदुस्तरतपस्ते सन्ति चानेकशः / // 10 // // 11 // // 12 // 95