________________ // 13 // // 14 // // 15 // ते सन्ति प्रचुराश्च भासुरतरं ये भावमाबिभ्रते; ये दानं वितरन्ति भूरि करिवत्ते केचिदेवावनौ संजातात्मजसंभवादिव महादेवीप्रसादादिव प्राप्तैश्वर्यपदादिव स्थिरतरश्रीभोगयोगादिव / लब्धस्वर्णरसायनादिव सदा सङ्गादिव प्रेयसां .. देहीत्यक्षरयोः श्रुतेरपि भवेदातावदाताननः धैर्य धावतु दूरतः प्रविशतु ध्यानं च धूमध्वजे, शौर्यं जर्जरतां प्रयातु पटुता दुष्टाटवीं टीकताम् / रूपं कूपमुपैतु मूर्च्छतु मतिर्वंशोऽपि विध्वंसतां, त्यागस्तिष्ठतु येन सर्वमचिरात्प्रादुर्भवेदप्यसत् काव्यं काव्यकलाकलापकुशलान् गीतं च गीतप्रियान् स्मेराक्षी स्मरघस्मरातिविधुरान् वार्ता च वार्तारतान् / चातुर्यं च चिरं विचारचतुरांस्तृप्नोति दानं पुनः, सर्वेभ्योऽप्यधिकं जगन्ति युगपत्प्रीणाति यत्रीण्यपि शीलादेव भवन्ति मानवमरुत्संपत्तयः पत्तयः शीलादेव भुवि भ्रमन्ति शशभृद्विस्फुर्तयः कीर्तयः / शीलादेव पतन्ति पादपुरतः सच्छक्तयः शक्तयः शीलादेव पुनन्ति पाणिपुटकं सर्वर्द्धयः सिद्धयः वाल्लभ्यं वितनोति यच्छति यशः पुष्णाति पुण्यप्रथां सौन्दर्यं सृजति प्रभां प्रथयति श्रेय:श्रियं सिञ्चति / प्रीणाति प्रभुतां धिनोति च धृति सूते सुरौकः स्थितं- . कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् तावद्यालबलं च केसरिकुलं तावत्क्रुधा व्याकुलं तावद्भोगिभयं जलं च जलधेस्तावद्धृशं भीषणम् / // 16 // // 17 // // 18 //