________________ तावच्चामयचौरबन्धरणभीस्तावल्लसन्त्यग्नयो यावन्नति जगज्जयी हृदि महाञ् श्री शीलमन्त्राधिपः // 19 // न्यस्ता तेन कुलप्रशस्तिरमला शीतयुतेर्मण्डले भ्राम्यंस्तेन नभस्वतां सहचश्चके स्वकीर्तेर्भरः तेनालेखि निजाभिधानमनघं बिम्बे च रोचिष्मतः कामं कामितकामकामकलशं यः शीलमासेवते // 20 // न स्वर्भोज्यमिव त्यजन्ति वदनात् स्वोषितस्तद्यशो, नैवोज्झन्ति तदंह्निरेणुममरा मौलेश्च मालामिव / सिद्धध्यानमिवोद्वहन्ति हृदये तन्नाम योगीश्वराः, शीलालंकृतिमङ्गसंगतिमति ये जन्तवः कुर्वते // 21 // नो भूयाज्ज्वलनैर्विना रंसवतीपाको यथा कर्हिचित् संजायेत यथा विना मृदुमृदां पिण्डं न कुम्भः क्वचित् / तन्तूनां निचयाद्विना सुवसनं न स्याद्यथाजातुचि-. नोत्पद्येत विनोत्कटेन तपसा नाशस्तथा कर्मणाम् // 22 // कुशलकमलसूरं शीलसालाम्बुपूरं विषयविहगपाशं क्लेशवल्लीहुताशम् मदनमुखपिधानं स्वर्गमार्गेकयानं कुरुत शिवनिदानं सत्तपोनिनिदानम् मार्ग मनोरममपास्य यथाभिलाषमक्षद्विपेषु विचरत्सु तपः सृणिः स्यात् / . तत्तद्दमाय महनीयपदप्रदाय तस्मिन्यतध्वमपहाय रसेषु मूर्छाम् // 24 // नार्यो युवानमिव वार्धिमिवाब्धिपत्न्यो विद्या विनीतमिव भानुमिवांशवश्च वल्ल्यःक्षमारुहमिवेन्दुमिवोडवश्च सल्लब्धयः समुपयान्ति तपश्चरन्तम् 25 क्षारैरिवाम्बरमपां प्रकरैरिवाङ्गं शाणैरिवास्त्रमनलैरिव जातरूपम् / भूर्मार्जनैरिव च नेत्रमिवाञ्जनैश्च नैर्मल्यमावहति तीव्रतपोभिरात्मा 26 GU