SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दत्ते येन विना घनेऽपि हि धने स्यादुस्सहस्तव्यय श्चीर्णे येन विनाभिकामविमले शीले च भोगक्षयः। तप्ते येन विना च दुस्तरतप:स्तोमे च कार्योदयः, कार्यस्तत्फलमिच्छुभिः शुभतरे भावेऽत्र भव्यैर्लयः / // 27 // श्रीनिं ददतामुपैति दधतां शीलं च भोगक्षयः, संक्लेशः सृजतां तपश्च पृठतां कण्ठे भवेत् कुण्ठता / पूज्यानां नमतां च मानमथनं दुःखं बृतं बिभ्रतां, मत्वैवं न कथं करोषि सुकरे भावे मनस्विन् मनः // 28 // नीरेणेव सर: सरोरुहमिवामोदेन सीतांशुना तुङ्गीवाम्बुजबन्धुनेव दिवसः कुम्भीव दानाम्बुना पुत्रेणेव कुलं कुरङ्गनयना भत्रैव धत्ते श्रियं भावेन प्रचुरापि पुण्यपटुता प्रोल्लासमीता क्रिया // 29 // कैश्चिद्दानमदायि शीलममलं चापालि कैश्चित्तपः कष्टं कैश्चिदधाय्यकारि विपिने कैश्चिन्निवासोऽनिशम्, कैश्चिद्ध्यानमधारि कैश्चिदनघश्चापूजि देवव्रजो। यत्तेषां फलमापि चापरनरैस्तद्भावविस्फुर्जितम् // 30 // सिद्धाञ्जनं जनितयोगिजनप्रभावं भावं वदन्ति विदुषां निवहा नवीनम् / सिद्धो भवेन्मनसि संनिहिते यदस्मिन् पश्यन् जगन्ति मनुजो जगतामदृश्यः स्कन्धो युद्धमहीरुहस्य कुमतेः सौधो निबन्धोंऽहसां, योधो दुर्नयभूपतेः कृतकृपारोधोऽप्रबोधो हृदाम् व्याधो धर्ममृगे वधो धृतिधियां गन्धो विपद्वीरुधा . मन्धो दुर्गतिपद्धतौ समुचितः क्रोधो विहातुं सताम् // 32 // वायुर्यथा जलमुचां समिधां यथाग्निः सिंहो यथा करटिनां तमसां यथार्कः। 98
SR No.004462
Book TitleShastra Sandesh Mala Part 12
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages382
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy