________________ हस्ती यथावनिरुहां पयसां यथोष्णः सक्तस्तथा प्रशमनाय शमो रुषाणाम् // 33 // तपःपूरं पाथोमुचमिव मरुत्संहरति यः कृपाकेलि मुस्ताङ्कुरमिव वराहः खनति यः / सद्भावं नाशं हिममिव पयो नयति यः ‘स कोपः साटोपः प्रविशति सतां चेतसि किमु // 34 // ते धन्या अभिवन्दनीयमिह तत्पादारविन्दद्वयं ते पात्रं सकलश्रियां जगति तत्कीतिर्नरीनति च तन्माहात्म्यमसंनिभं सुरनरा सर्वेऽपि तत्किङ्करा ये कोपद्विपसिंहशावसदृशं स्वान्ते शमं बिभ्रति // 35 // वनवह्निर्नवः कोऽपि कोपरूपः प्ररूपितः / आन्तरं यस्तपोवित्तं भस्मसात्कुरुते क्षणात् // 36 // जात्यैश्वर्यबलश्रुतान्वयतपोरूपोपलब्धिश्रितं, गवं सर्वगुणैकपर्वतपविमात्मन् कृथाः सर्वथा। सङ्गं गच्छति यत्र यत्र यदसौ तत्तद्विनाशास्पदं, प्रेत्य प्राणभृतो भवन्त्यभिमतप्राप्तिप्रहीणाः क्षणात् // 37 // औचित्यचारुचरिताम्बुजशीतपादं सत्कर्मकौशलकुचेलकठोरपादम् / संसेव्यसेवनवनद्रुमसामयोनि.मानं विमुञ्च सुकृताम्बुधिकुम्भयोनिम्३८ विपदां सद्म गर्वोयमपूर्वः पर्वतः स्मृतः। / प्राप्नुवन्त्यूवरूर्द्धानो, यमारुढा अधोगतिम् // 39 // दष्टो येन जनो जहाति विनयप्राणान् प्रसिद्धिप्रदान् . यद्दष्टेन विवेकनीतिनयने संमील्य संस्थीयते। यद्दष्टस्य च कीलकीलितमिव स्तब्धं वपुर्जायते 'दर्प सर्पमिवातिजिह्मगहनं कस्तं स्पृशेत्कोविदः // 40 // ...