________________ दम्भं बका इव विधाय दुराशया ये, मीनानिवाखिलजनान् प्रतिवञ्चयन्ति तैः सौहृदादमलकीर्तिलतापयोदादात्मा प्रपञ्चचतुरोऽचतुरैरवञ्चि 41 मायामिमां कुटिलशीलविहारविज्ञां, मन्यामहे हृदि भुजङ्गवधूं नवीनाम् दष्टोऽनया स्मितसरोजसहोदरास्यो, मोहं नयेद्यदितरान्मधुरं ब्रुवाणः विश्रम्भं भुजगीव जीविततनुं व्याहन्ति या देहिनां, या सौहार्दमपाकरोति शुचितां स्पर्शोऽशुचीनामिव / या कौटिल्यकलां कलामिव विधो: पुष्णाति पक्षःसितस्तां निर्मोकमिवोरगः क्षतगति मायां नं को मुञ्चति . // 43 // ये कौटिल्यकलाकलापकुशलास्ते सन्त्यनेके क्षितौ, ये हार्यार्जववर्यवीर्यसहनं ते केचिदेव ध्रुवम् / लभ्यन्ते हि पदे पदे फलभरै नम्रा दरिद्रद्रुमाः, संप्रीणन् भुवनानि पेशलफलैरल्यो हि कल्पद्रुमः // 44 // उमाया इव मायायाः, संपर्कं मुञ्च मुञ्च रे / ईश्वरोऽपि नरो नूनं, यत्सङ्गाद् भीमतां भजेत् .. // 45 // नाशं यो यशसां करोति रजसां व्रातोऽनिलानामिव त्रासं यो महसां तनोति वयसां पातः शराणामिव।. शोभा यो वचसां हिनस्ति पयसां वृष्टिर्घनानामिव त्यक्त्वाकृत्यकरीन्द्रकुम्भशरभं लोभं शुभंयुभव // 46 // किंध्यानैर्मुखपद्ममुद्रणचणैः किञ्चेन्द्रियाणां जयैरुद्धेच्छैस्तपसां पुनः प्रतपनैः किं मेदसां शोषणैः / किं वाचां जनितभ्रमैः परिचयैः किं क्लेशयुक्तैर्ऋतै- . श्चेल्लोभोऽखिलदोषपोषणपटुर्जागर्ति चित्तेतिभूः स स्थैर्यैकनिकेतनं स सुभटश्रेणिषु चूडामणिः स प्रागल्भ्यपरानुभावसुभगः स ध्यानधुर्धर्वहः / 100 // 47 //