________________ तद्वत्किं शशिदीपतारमणिभिर्विश्वप्रकाशोभवेदेवं मङ्गलदीपकोच्चशिखयाद्याष्टाह्निका शंसति // 145 // रागद्वेषजितोऽर्हतोध्रियुगलं पाणिद्वयेनार्चयन, साधुश्रावकधर्मभाक् परभवे स्वर्गापवर्गों भजेत् / दृक्कर्णद्वितयेन रूपगुणभृच्चेहापि तोषं परं, घण्टाचामरचेष्टितेन विवृणोत्यष्टाहिकैकोत्तरा . // 146 // त्रैलोक्यं त्रिपदीतनुस्त्रिपथगा प्रीणाति यस्यान्वहं, कालेषु त्रिषु तं त्रिकालविदुरं देवं त्रिशुद्ध्या मह। स्वच्छत्रत्रयसंपदे दिशति वो येनैष रत्नत्रयं, त्रिःपुष्पाञ्जलिसंज्ञया ज्ञपयतीत्यष्टाहिका व्युत्तरा // 147 // व्याख्यासद्म चतुर्विधामरकृतं प्राप्यावदद्यं चतुमूर्तिस्तीर्थपतिश्चतुर्गतिहितं धर्मं चतुर्धा बुधाः। तं कुर्वन्तु चतुःकषायरहितास्तूर्ये पुमर्थे रताः ब्रूते सङ्घकृतस्तुतिप्रतिरवैस्तूर्येयमष्टाहिका // 148 // किं पञ्चेन्द्रियशर्म पञ्चविषयैर्मूढा मितं वाञ्छतो, दञ्चत्पञ्चसुभावनानि दधतां पञ्चव्रतान्युच्चकैः / पञ्चज्ञानवतां यथा बहुसुखा वः स्याद् गतिः पञ्चमी, स्पष्टं जल्पति पञ्चशब्दनिनदैश्टाहिका पञ्चमी // 149 // जित्वा षड्विकृतिस्पृहां षडपि तान् मुक्त्वा रसान् शक्तितः, षड्जीवावनतस्तपः कुरुत षड्भेदं बहिश्चाबहिः / द्विड्षड्वर्गजयो मतः षडतुजा पूजा च चेन्मानसे, भट्टोन्नादितषट्पदध्वनिरुवाचाष्टाहिका ष्ठिका // 150 // सप्तापि व्यसनानि सप्तनरकद्वाराण्यहो सप्तभीहेतूनि त्यजताशु पृण्यनृपतेः क्षेत्राणि राज्याङ्गवत् /