________________ तद्भव्या इह कुत्रिकापणनिभे पूज्यप्रसादोदयात्, दानाद्यं गणिमादिवस्तुवदलं गृह्णन्तु पुण्यद्धये // 138 // वर्षान्तर्बहुवर्द्धिनो नवरसैर्जाड्यक्रुधौर्वच्छिदः, शश्वच्छीजिनसन्निधेरभिनवाव्याख्यानरत्नाकरात् / मादृग्वाग्लहरीस्फुटं शमसुधासम्यक्त्वचिन्तामणिश्रेयःस्वस्तरुमुख्यरत्ननिवहं गृह्णन्त्वनायासत: // 139 // साष्टमी व्यभिचाराय, श्रेयः कर्मणि किं.यया। तुल्य: पक्षद्वयेऽपीन्दुधृतः पक्षान्तरस्थया * // 14 // एकैकापि हि पुण्याय, भूतेष्टापि तदन्तिके / योगे किं त्वब्धिवेलायां गङ्गायमुनयोरिव // 141 // अहँश्चिन्तामणित्वं कनककुसुमतां पञ्च यद्भूषणानि, यस्यां सत्कङ्कणत्वं दधति च सततं पञ्च यल्लक्षणानि / धर्मः सिद्धार्थसार्थः सुगुरुपदरजो दोरकस्तद्गुणाली, धार्या सम्यक्त्वरक्षा कुगतिभयभिदे सद्गतिश्रेयसे च // 142 // कल्पाख्यानकपञ्चदिव्यनिहितः क्लृप्ताभिषेकोत्सवो, भव्यैः पर्युषणामहःक्षितिपतिमिथ्यात्वकोपादिकम्.। कृष्ट्वा पञ्चकुलं जनेऽतिविषमं भव्यं नवं स्थापयन्, सम्यक्त्वं शममार्दवार्जवनिरीहत्वं शिवायास्तु वः .. // 143 // चेतःस्थालं विशालं कलमकणगणः श्रावकाणां गुणाली, सम्यक्त्वं सद्दुकूलत्रितयमनुपमं नालिकेरं विवेकः / जैनाज्ञा मूर्ध्नि दूर्वा मलयजघुसृणे भावलोकानुरागौ, .. सत्कीर्तिः पुण्यवर्धापनमिति भवतादान्तरद्विड्जये वः // 144 // सौख्यं शाश्वतमेक एव हि जिनः कुर्यात्तु शेषैः सुरैः, स्याच्चेदैहिकमेव किञ्चन ततो यद्वा सवित्रा यथां /