________________ पादोपान्ते च नम्रत्रिभुवनजनतास्वीकृतोच्चैर्फलर्द्धि:, श्रीवीरो वोऽस्तु चिन्साधिकतरवरदः कल्पशाखी नवीनः // 130 // स्युत्रिंशत्सहस्रा भरतजनपदाः सार्द्धपञ्चाग्रविंशत्यार्येष्वर्हत्प्रबोधः सुगुरुभिरधुना पञ्चषेष्वस्ति धर्मः / सत्क्षेत्रं तत्र चाल्पं लवणभुवि यथा पल्वले ग्रीष्मतुच्छे, पद्मं हंसस्य तुष्टयै तदिह बहुगुणे सच्चतुर्मास नः // 131 // यन्नश्चिरं विहाराज्जिननतिपुण्यं तदाशु वोऽत्राभूत् / कर्पूकशालेयत्नाद्वर्द्धकिशालेद्भुतं तु फलम् // 132 // कृतकर्म कर्ममर्मच्छिदे भवेद्भावतोऽन्यथा श्रान्त्यै। पुण्याधिकनिःपुण्यककृतकामदमन्त्रसाधनवत् // 133 // राजा विश्वहितो जिनो नयपरा व्यापारिणः श्रावकाः, . स्थाने सर्वगुणोज्ज्वलेऽत्र शमिनः कौटुम्बिंकास्ते वयम् / जैनाज्ञागुणपत्रदत्तविधिना वर्षासु तेन स्थिता, ज्ञानक्षेत्रमुपास्महे बहु मिथः स्यायेन पुण्यं धनम् . // 134 // फूल्लक्रोधविषद्रुमं बहुरजो मानप्रचण्डानिलं, मायोद्यन्मृगतृष्णिकं परिलसल्लोभाब्धिमापन्निधिम् / भिन्दन्मोहनिदाघकालमभितः सद्ध्यानवृष्ट्याभवभ्रान्तिश्रान्तिभिदेऽस्तु वो नवघनश्रीमच्चतुर्मासकम् // 135 // प्रतिदिनमपि दानं पुण्यसंपनिदानं, पुनरधिकफलं स्यात्पारणाहोत्तराहे। दिशति जलभृदन्नं कृत्तिकादौ सुवृष्टः, पुनरमलमनयँ मौक्तिकं स्वातियोगे जितभवदकषायः पाक्षिकादेर्दिनोज्यो वितरणकरणैः प्राक्पश्चिमावप्युदारौ विहितभुवनमुत्किं पार्वणश्चन्द्र एक: तदितरशशिनौ किं नो मुहुर्ताप्रकाशौ व्याख्यानश्रवणं सदैव हि मुदे पीयूषपानं यथा, वर्षास्वस्य पुनर्विशेषमहिमा यद्वन्मयूरध्वनेः / . . . 87 20