________________ यदि शिवगतिरिष्टा सार्यमेतार्यवत्तज्जय रुषमुपसर्गेऽपीप्सिता दुर्गतिश्चेत्। करडकुरडवत्क्रोधमुच्चैविधेहि, सुरतरुकनको र्योमतस्तं भजस्व 123 मानी तपः श्रुतशमव्रतधर्महीनः, स्यानन्दिषेण इव पण्यवधूपहासे। . किं तारकः कमलभूवरदुर्द्धरोऽपि नाकारि शम्भुशिशुना हृतसर्वगर्वः 124 स्वस्यापरस्य च बलान्यविचिन्त्य मानी शक्राभ्यमित्रचमरेन्द्रवदापदे स्यात् शुक्र:कदाचिदिह चेत्तनुते प्रकाशलेशं ततः स्थगयतीन्दुमहो महत्किम् मायादुर्गतिकृद्भवेत् परभवे क्लेशाय वास्मिन् पुनः, श्रीवीरेण सुरोऽपि कैतवसखा कुब्जीकृतो मुष्टिना / किं कर्णस्य न निष्फला युधि कला विप्रच्छलात्ताऽभवत्, किं श्रीशो न जगाम वामनतनुर्दैन्यं बलेबन्धनम् // 126 // सर्वेऽप्येते कषायाः सदृशबलभृतः किं तु तीनैव माया, जित्वा याऽऽषाढभूतिं नटमिव नटयामास गौरीव रुद्रम् / स्त्रीत्वं स्त्रीलिङ्गभावादिह नृषु न ददौ मल्लिमुख्येषु या किं, सत्यं दुर्दान्तदैत्यं कपटसुरमणीरूपविष्णुर्जघान ... // 127 // लोभी तृप्यति नो घनैरपि धनैरिच्छन्नवं स्वं नवा दप्याद्यः पितृकल्पितानुजपदं किं वार्षभिर्नाच्छिदत्.। अश्रान्तं सरितां शतैरपि भृतः किं वाम्बुधिः पूर्यते, किं वा शाम्यति काष्ठकोटिभिरपि ज्वालाकरालोऽनलः // 128 // चित्तावन्यां जनानां कपिलसमधियां वित्तलेशाप्तिमूलः, प्रत्याशावारिसिक्तो धनिविविवधनप्रार्थनाभोगवल्गुः / भूपेन्द्रत्वादिसंपन्मतिकुसुमततिर्भोगचिन्ताफलर्द्धिर्लोभोऽ धृत्या स्रवन्त्या व्रजतु कलितरुर्वप्तुरप्यतिहेतुः // 129 // स्वर्भूमेर्मातृगर्भेऽगमदुदयमहो यः सुरैर्मेरुशैले, सिक्तस्तातालयेऽगादुपचयमनिशं छायया क्रान्तविश्वः / 88