________________ सङ्घोल्लुण्टनसज्जदग्धचरटग्रामेऽग्नितप्तप्रजामध्योत्पत्तिभवे समं सगरजैः किं किं न लेभे तदा // 116 // चौर्य स्वेन च वर्णकेन च कृतं मूढा दुरन्तं भवेद्राज्ञामण्डिकशालकोऽपि न हतः किं मूलदेवेन सः / किं चैतत्रिजगत्प्रियोऽपि मदनस्तच्चित्तचौर्योद्यतः, शापं प्राप न किं प्रजापतिगिरा दाहं च रौद्राग्निना पातागरा दाह च रौद्राग्निना // 117 // पुण्यापुण्यचयेन बुद्धिरमला स्यात् कश्मलाप्यङ्गिनां, वातेनेव युगन्धरी सदसता मुक्ताफलाङ्गारभा / लकेशो नलकूबरप्रियतमां नाम्नोपरम्भां रतामत्याक्षीदरतां च रामवनितां सीतां जहाराशु यत् // 118 // मूढः परस्त्रियमुपेत्य कुंवाक्यबन्धघातापकीर्तिभृतिदुर्गतिदुःखपात्रम् / स्याद् ब्रह्मदारचुलनीरतदीर्घवत्किं, लक्ष्मक्षयादि न विधोर्गुरुतल्पगस्य सुभूमजमदग्निजप्रतिमपुन्द्रुमाघर्षजे, कषायदवपावके विषयवात्ययादीपिते। . महद्गुणवनं दहत्यहह पुण्यकल्पद्रुमस्ततोऽस्ति यदि दैवत: शमघनाघनो वर्षति // 120 // जीवाः कषायविवशा न विचारयन्ति, चाणक्यवत्किमपि कृत्यमकृत्यमत्र / कल्पान्तवातविततिक्षुभितस्य पूर्ण- . . रोदोन्तरस्य जलधेर्ननु को विवेकः / // 121 // मिष्टान्नं भुक्ष्व हृद्यं पिब जलमपि तान् षड्रसान् मा च रुन्द्धि, कायक्लेशं त्यजाङ्गं विमलय सुकरः क्रूरकुम्भर्षिणोक्तः / मोक्षोपायोऽस्ति कोपं जय भज शिवजं शर्म साधो निबोध, द्राक्षेक्षुक्षीरखण्डप्रभृतिरसबलात्संनिपातेऽप्यदुष्टम् // 122 // 85