________________ // 111 // . नाकृत्यकृत्यविदलं मधुपानमत्तो भूताभिभूत इव शून्यमनोवचोङ्गः / किं देवकीपरिणये मदपारवश्यानाश्लेषि जीवयशसाप्यतिमुक्तकर्षिः मधु मधुरवचोभिः प्रेयसीप्रेरितो यः, पिबति निजकुलोत्थां चारुचिन्तां विमुच्य। वररुचिवदिहापि प्रेक्षते दुर्गति सः, क्व च तनुदृढता स्याद्भोशिभुक्ताज्यभोगैः वेश्या विश्वकलत्रमत्र तदहो पानीयशालाजले, यद्वत्कान्दविकाशने च शुचिता का प्रायशस्तादृशी। तस्मात्सा कृतपुण्यवत् कृतकमुच्छोकोदया किं प्रिया, पूर्णेऽलं विशदा स्वभावकलुषा दोषापि नेन्दौ कृशे // 112 // क्व लघुनि गणिकानां हृद्यनेके गवाक्षा, . दधति यदनुवेलं ता रसं नव्यनव्यम् तदजनि हृतवृत्तः कूलवालोऽपिताभिगलति हिमगिरिर्वा भानुभाभिर्दृढाभिः // 113 // व्याधो नान्यहिताय सत्यमसकृद्विश्वस्तजन्तूंस्तुदन्, न स्वस्मिन्नपि तुष्टये च्युतशरकोडादितोन्तं व्रजन् / . मृत्यौ दुर्गतिमाप्तवांश्च मृगया लोकद्वयात्र्यै ततो, गाङ्गेयेन स शान्तनुक्षितिपतिस्तस्या निषिद्धस्ततः // 114 // पापद्धौं तनुमद्वधोज्झितघृणः पुत्रेऽपि दुष्टाशयश्चण्ड:खाण्डवपावकादपि मुधा कं कं न हन्याज्जडः / किं बाणेन जरासुतो वनगतो विव्याध नो बान्धवं, प्रापोच्चैर्मुनिघातपातकभरं किं नाजराजांगजः // 115 // चौरो दुःखमुपैति नारकसमं सत्योऽपि तत्संनिधेः, शुष्के प्रज्वलिते हि सामपि किं नो वह्निना दह्यते /