________________ स्पर्शातिगृनुरति बल्यपि याति दुःखं,प्रद्योतभूप इव मन्त्र्यभयेन बद्धः / को वाग्रहीष्यदिभमेष न चेत्करेणुस्पर्शान्धधीः स्थगितगर्तगतोऽभविष्यत् यः स्पर्शसौख्यलवमिच्छति मूढबुद्धिः सिद्धिप्रदेन तपसा सुकुमालिकेव चिन्तामणेः सकलभूतलराज्यदातुर्बालः स भृष्टचणकान् वृणुते क्षुधातः निःसत्त्वं निर्दयत्वं विविधविनटनाशौचनाशात्महानी, अस्वास्थ्यं वैरवृद्धिर्व्यसनफलमिहामुत्रदुर्गत्यवाप्तिः चौलुक्यक्ष्मापवत्तद्व्यसनविरमणे किं न दक्षा यतध्वं, जानन्तो मान्धकूपे पतत चलत मा दृग्विषाहे: पथा हे // 104 / / सप्तापि व्यसनानि पापसदनान्येतानि वानि यत्, सत्कर्मापि न शस्यते व्यसनमत्यासेवया स्याद्यथा। स्नेहोऽर्हत्यपि गौतमस्य गणनाऽकाले च कोशागुरोः, म्लानिः पारदभाविते हि कनकेऽरिष्टं फलेऽनातवे / // 105 / / द्यूतेनार्थयशः कुलक्रमकलासौन्दर्यतेजः सुहृत् साधूपासनधर्मचिन्तनगुणा नश्यन्त सन्तोऽपि हि। यद्वत्पाण्डुसुतेषु तच्च्युतसुधीष्वादित्यभावजिते, विश्वे किं तमसा स्फुटं घटपटस्तम्भादि वा लक्ष्यते // 106 // द्यूते न किं त्यजत किं दहत स्वगेहं, श्वानं च मूत्रयसि किं वदने स्वकीये तत्तादृशीप्रियतमासहितो नलोऽपि, जानीत रोर इव राज्यसुखानिरस्तः मांसाशनान्नरक एव ततः स देवस्तल्लोलुपं हरिनृपं कृतवान् सरोषः / किं पाकपेशलतराशनदत्ततृष्णे, किम्पाकभोजिनि मृतेरपि संशयोऽस्ति स्नेहो दयापि हृदि कामिषलोलुपानां, किं चिल्लणापि पतिमांसदलानि नैच्छत् / नाश्नाति किं निजकुटुम्बमपि द्विजिह्वी, स्थानं स्वमन्यदपि किं दहतीह नाग्निः // 109 // 83