________________ स्यात् क्षुल्लकाभिधकुमारवदस्थिरेषु स्थैर्याय गीतमपि बोधकरं कदाचित्। . बालोऽपि निर्वृतिमुपैति निशम्य सम्यक् मात्रोदितानि कलमन्मनगीतकानि नो विन्दत्युष्णशीताद्यपि न सदसदप्युक्तमाविष्करोति, दुःसद्गन्धान वेत्ति प्रथयति न रसान् रूपनिर्मग्नदृष्टिः / तदृष्ट्येकेन्द्रियेऽस्मिन्नहितहितमति: का कुमाराग्रनन्दौ, चम्पापू:स्वर्णकारे विवशशि यथा पञ्चशैलेशदेव्योः // 96 // . आस्तां सत्यं रूपमालेख्यबिम्बस्यालोकेऽपि क्लेश एवातिरागात् / सुज्येष्ठा श्रीश्रेणिकक्ष्मापवत्स्यात् नैणश्रान्तिभ्रान्तवारीक्षणात्किम् 97 // रुक् पथ्यं च रसैर्यथा बहुतया संसेवितैर्लोलुपैधीरैर्यद्विधिना भवेदपि तथा संसारमोक्षावपि / यन्नानारसलालसः स मथुरामगुर्भवं भ्रान्तवान्, यत्तीर्णश्च स ढण्ढणः सममघैः सन्मोदकंक्षोदकः // 98 // किं जेयो रसनेन्द्रियेण स महान् यः सत्त्वरक्षारुचि र्यद्वद्धर्मरुचिः कुतुम्बकमपि पक्वाम्रवद्भक्षयन्। ... किं वा विश्वहिताय नोदरगतं सिन्धुर्दधौ वाडवं; सारग्राहिसुरास्तमाशु न विषं किं नीलकण्ठः पपौ // 99 // स्याद्गन्धोऽपि यतस्ततोऽप्यधिगत: क्लेशाय नाशाय वा, तच्चाणक्यधियातुरः श्रुतिमगान्मन्त्री सुबन्धुर्न किम् / पश्य क्लिश्यति पुष्पसौरभहतः सर्पः सदर्पोऽपि सन्, सायं चाम्बुजकोशबन्धनमलिः प्राप्नोति गन्धातितृट् // 100 // वित्रैर्धातुभिरङ्गमेतदघटि प्रागेव तत्राप्यहो, दुर्गन्धः प्रतिकर्मणापि हि बहिः प्राक्कर्मतः केचन / दुर्गन्धेव मृगातनुजवदतः सौरभ्ययत्नोऽत्र को, गन्धद्रव्यचनिबोध शुचिता का नीलिकाभाजने / // 101 //