________________ भावं कुर्वन्तु येनाप्यखिलसुखभृतां वल्कलस्येव मुक्तिः, मिष्टास्वादैर्यदि स्याननु तनुपटुता को न तां कारयेत्तत् // 88 // यो दानं न ददौ कथैव न तपः शीलार्हदर्चागमे, यस्यानार्ययुजोऽत्र केवलमभूद्भावादिलानन्दने / स्वर्णादौ ज्वलनेन वह्निदृषदोर्गाहें मिथो घट्टनैरादर्शे रविणा महौषधिवने किं तु स्वभावेन भाः // 89 // मातुर्गर्भावतारे चतुरधिकदशस्वप्नसंसूचितौ प्राग् जातौ यावेकरात्रौ त्वजितसगरयोः पुण्ययोः पश्य जातिम्आगर्भोत्पादमिन्द्रैरसुरसुरनरैः सेवनीयस्त्रिलोकी नाथोऽर्हन्नेक आसीद्भरतनृपनतोऽन्यश्च चक्री द्वितीयः // 90 // तुल्यं तीर्थाधिपत्यं बलमपि सदृशं सर्वतीर्थंकरणां, किं तु श्रीमल्लिनाथः प्रथयति सुकृतैः किञ्चिदाश्चर्यमुच्चैः / पूर्वाह्ने यस्य जज्ञे व्रतमपि सुलभं केवलं चापराह्ने, ज्ञानं नाभेयवीरप्रभृतिजिनपतेरप्यभूधच्चिरेण . // 91 // श्रुत्वाह्नानं स्त्रियस्तामनुसरति रसो हंसकोनादपादेनाशोकःस्पृष्टमात्रस्तिलककुरुबको चुम्बनालिङ्गनाभ्याम् / पुष्येद्वक्त्राब्जवासाधिकरससुरया केसरश्चेद्विकारोऽप्येषां तत्सत्यकीवाधिकविनयरतिर्यातु नो किं भवार्त्तिम् // 92 // संसारारण्यमध्ये मधुरमुखकटुप्रान्तभृत्कामधूर्ता, दक्षान्मूढांश्च तत्तत्सुखलवभजनैः प्राणिनो विप्रतार्य / हत्वा तत्पुण्यवित्तं गमयति कुगति ब्रह्मदत्तं यथा तत् पूर्वभ्रातेव धीरः शिवमटति पुनस्तं तपोऽस्त्रेण भित्वा // 93 // गीतामृतातिरतिकर्णपुटस्त्रिपृष्ठपर्यङ्कपाल इव कष्टमुपैति घोरम् / सच्छद्मलुब्धककृताद्भुतगीतलुब्धं, बद्धं विलोकय मृगं भयविह्वलाङ्गम्