________________ सुप्रापं शुद्धपात्रं धनमपि विशदं किं तु निःपुण्यकानां, नो चित्तं पात्रदानं प्रति भवति मतिर्यत्र शुद्धाशनाद्यैः / आद्योऽर्हन् वर्षमेकं प्रतिदिनमगमच्छुद्धभैक्षेऽपि देशे, श्रेयांसस्त्वेक आद्यं सुकृतिषु कृतवान् स्वं प्रभोः पारणेन * // 82 // यदपि तदपि शुद्धं चन्दनावत्प्रदत्तं,. झटिति फलति पात्रेऽन्यत्र नो चार्वपि स्वम् / जलधिजलमसारं वारिवाहेऽमृतीस्यात्, मधुरमपि हि दुग्धं पन्नागास्ये विषं स्यात् // 83 // स्त्रीविभ्रमैश्चलति लोलमना न धीरः, श्रीस्थूलभद्र इव तादृशसंकटेऽपि / चूर्णीभवेद्दषदयोऽपि विलीयते च, वैडुर्यमेति विकृति ज्वलनात्पुनर्न // 84 // सद्रूपयौवनगुणागतसानुरागवित्तेशदत्ततनयानयनेष्वभेदात् / वज्रेण वज्रमुनिना स्वयशोर्णसाऽसत्सङ्गाशुचि क्वचिदपूयत शीलमेव तपः शिवकुमारखच्चरति मन्दिरस्थोऽपि यः स देवपरिषद्यपि द्युतिमहत्त्वविस्फूर्तिभृत् / कृशान्वकृशतापनोल्लसितवर्णकं काञ्चनं, न धातुषु विशिष्टतां नृपतिमौलितामेति च // 86 // तपः सकलकर्मभिद्विविधलब्धिकृनिश्चितं, गृहे पुरि च दुर्भगोऽप्यहह नन्दिषेणो द्विजः / व्रते शमतप:परः सुरनरैकवन्द्योऽभवद्रविज्वलनतापितः श्रयति दीप्तिमामो घटः दानं वित्तव्ययेनापरयुवतिरतित्यागतः शीललीला, नानाहाराप्रचारात्तप इह तदहो हृद्यपध्यानहीनाः / // 87 // 8.