________________ पुष्पाक्षताम्बुफलचन्दनदीपधूपनैवेद्यतः प्रतिदिनं जिनपादपूजा / श्रीश्रेणिकादिजनवज्जिनतादि दत्ते चक्रादयः कलशतामिवमृद्दलस्य स्याजिनार्चनकृतस्त्रिकशुद्ध्या, शं विपद्यपि यथा दमयन्त्याः / स्वस्तरुः फलति किं न हि रोरे, नेन्दुरस्यति तृषं च चकोरे // 75 / / श्रीरामवद्भो नय एव सेव्यः, प्रजानुरागव्रतवित्तमूलम् / को दक्षिणावर्त्तमुपेत्य शङ्ख, त्यजेन्मुधा श्यामलचित्रकं च।। 76 // मनसि वसति शश्वनन्याय एवोत्तमानां, यदमरवरलब्ध्या पारदारिक्यचौर्ये अनुविषयमरौत्सीच्चक्रभृद्ब्रह्मदत्तः, क्व सुरसरिति पक: क्वेशचन्द्रे कलकः विद्याविभूतिमहिमव्रतधर्ममोक्षसंपत्तये विनय एवं विभुः किमन्यैः / कि कि नमिः सविनमिजिनतो न लेभे, पूज्या िरेणुरपि पश्य नमस्य एव . // 78 // किं मर्त्यस्त्रिदशोऽप्यपास्तविनयो म्लाने: सहानेः पदं, यक्षो वृद्धकरः किमार्यखपटाचार्येण नाशिक्षितः / किं वा विष्णुकुमारतो न नमुचिर्मृत्वाऽगमदुर्गति, नद्योघस्तरुमुन्नतं रुजति वा ननं तु नो वेतसम् // 79 // राज्यं शककृताभिषेचनमहो रूपं त्रिलोकेऽप्यसत्, सारुप्यं च सनत्कुमारनृपतेः सोऽप्यङ्गवैराग्यतः / चके चारुतपः सलब्धिरपि तत् स्वं नाचिकित्सत्पुना, ‘रज्येद्वां प्रतिकर्मनिर्मलरुचौ कः कुप्यपात्रे सुधीः आजन्मान्तमनन्तदुर्मतिभवे वैराग्यमस्त्येव तद् व्यक्तं हेतुषु सत्सु किं तु भवति प्रत्येकबुद्धेष्विव / सूर्याश्मन्यनलं पयः शशिमणौ स्वर्णं सुवर्णावनौ, कोऽद्राक्षीत् पुनरर्कचन्द्रहुतभुग्योगात्कुतोऽप्येति वा // 81 // // 80 //