________________ // 68 // . // 69 // // 70 // धर्मः पुंप्रभवो यदेतदिदमेवार्यापि पूज्या पुनर् यस्या धर्मसमुद्भवो गुरुजनेष्वप्युन्नतिर्यत्पुरा। सौनन्देयनृपेऽनिकासुतगुरौ श्रीचन्दनायां न किं, ब्राह्मी पुष्पवतीसुता किल मृगावत्यप्यभून्मुक्तये किं पूज्या श्रमणी न सा श्रुतरसा दुर्बोधहन्मोहहत्, .. मात्रासक्त कुबेरदत्तदयिता.साध्वीव जातावधिः। . धन्या एव चिरन्तना व्रतधना अप्याधुनिक्यः शुभा, याकिन्या हरिभद्रवादिमुकुटः सोऽबोधि वाङ्मात्रतः अकृत भरतचक्री विश्वसाधर्मिकारों, कुरुत तदनुमानाच्छ्रेयसेऽत्रोद्यमं तत् / यदि सकलधरित्री प्रीणयत्यम्बुवाहः, किमु न तदरघट्टः क्षेत्रमानं पृणातु ' श्राद्धानां सदुपासका बहुमता एवैकधर्मत्वतः, साधूनामपि जातु गौरवपदं वीतस्पृहाणाममी। .. रुग्नाशादुपसर्गहृत्स्तवनतः श्रीभद्रबाहोर्यथा, - चन्द्रार्काब्दवदुत्तमेषु सहजं विश्वोपकारि व्रतम् स्त्री पुंसोप्यधिका त्रिपक्षविशदा पुंरत्नखानिर्यतः, स्वामिन्या मरुदेवया तु सदृशी भूता न भाविन्यपि। विश्वाच्यौँ जिनचक्रिणौ प्रथमतो यत्पुत्रपौत्रावहो, या प्रागेव शुभेयभूच्छिवपुरप्रस्थानकस्था प्रभोः या श्राविकाप्यमलशीलपवित्रिताङ्गी, सा श्लाध्यते त्रिभुवनेऽपि यथा सुभद्रा / यस्यास्त्रिवारिचुलुकाहितलोकतुष्टेः, स्रोत:सहस्रकृतमुत्सदृशी क्व गङ्गा 78 // 71 // // 72 // // 73 //