________________ वित्तं स्थिरं सुकृतकीर्तिकरं च बाहुबल्यादिवद्विविधतीर्थनिवेशकानाम् केतूल्लसद्भरतपुण्ययशोऽर्थवादमष्टापदं क इव नानमदद्य यावत्।। 61 // ज्ञानं जगत्रयहितं पुनरप्यधीते ज्ञोऽप्यारक्षित इवेतरशास्त्रपाठैः / ये स्वर्णधीकनककाचकृतादरास्ते हेमैव सत्यमधिगम्य किमु त्यजन्ति पठ पठति यतस्वान्नादिना लेखय स्वैः, स्मर वितर च साधौ ज्ञानमेतद्धि तत्त्वम् / श्रुतलवमपि पुत्रे पश्य शय्यंभवोऽदात्जगति हि न सुधायाः पानतः पेयमन्यत् // 63 // लोकेभ्यो नृपतिस्ततोऽपि हि वस्श्चक्री ततो वासवः, सर्वेभ्योऽपि जिनेश्वरः समधिको विश्वत्रयीनायकः / सोऽपि ज्ञानमहोदधिः प्रतिदिनं सधं नमस्यत्यहो, . वैरस्वामिवदुन्नति नयति तं यः स प्रशस्यः क्षितौ // 64 // कोऽप्यन्यो महिमास्त्यहो भगवतः संघस्य यस्य स्फुरत् कायोत्सर्गबलेन शासनसुरी सीमंधरस्वामिनम् / नीत्वा तत्कृतदोषशुद्धिमुदितां यक्षायिकां चानयत्, किं चैतन्ननु तत्प्रभावविभवैस्तीर्थंकरत्वं भवेत् // 65 // भवति हि भवपारः शुद्धया साधुभक्त्या, धनगृहपतिजीवानन्दवैद्येशवत् प्राक् / पृथुरपि हि पयोधिस्तीर्यते चारुतर्या, तिमिरभरभृतोऽध्वा दीप्रया दीपयष्ट्या दानैः प्रासुकभक्तपानवसनावासौषधानां मुनेवैयावृत्यकृतेश्च विस्मयकरा भोगा बलं चाप्यते / श्रीमद्बाहुसुबाहुवत्परभवे सा कामगव्यप्यहो, सच्चारीजलदानकोमलकरस्पर्शेरलं तुष्यति // 67 //