________________ शुचिपौषधेन मुनितुल्यतेति किं, जिनतापि मेघरथवद्भवेत् कमात् / किमु निर्द्धनस्य मणिनेष्टदायिना, धनितुल्यतैव नृपतुल्यता न किम्५२ सत्पौषधं विविधसिद्धिदमौषधं यत्तद्भावनाशमरसाहूदग्निलीढः / स्वः सागरेन्दुरजनि स्फुटहेममूर्तिरौर्वाग्नितप्तविमलोऽदिरिवाब्धिमन्थाः किमपि फलमपूर्वं संविभागस्य साधोर्यदभिलषितसिद्ध्यै मूलदेवेऽपि माषाः / कृशमपि हि सुपात्रे न्यस्तमुच्चैः फलद्ध्य, ननु तृणमपि धेनोर्दुग्धपीयूषवृष्टयै / // 54 // यदसदपि ददौ प्राक् शालिभद्रोऽतिथेः स्वं, तदसदपि स लेभे क्वामरर्द्धिः क्व मर्त्यः / क्व भुवि जलधिरिन्दुः क्वाम्बरे तं स पुष्णात्यमृतभृतपयोदं शोषणेऽप्यौर्ववर्तेः // 55 // क्षेत्रेषु सप्तस्वपि पुण्यवृद्धये, वपेद्धनं संप्रतिराजवद्धनी। कृषीवलः केवलशालितन्दुलान्, वपेत्स किं योऽखिलशस्यलालस: 56 क्षेत्राणि सप्तापि फलन्ति सर्वमप्येककं कल्किजवत् सुजुष्टम् / यत्पुण्यमारात्रिकसप्तदीपैरेकेन तन्मङ्गलदीपकेन . // 57 // बिम्बंमहल्लघुचकारितमत्रविद्युन्माल्यादिवत् परभवेऽपिशुभायजैनम् ध्यातुर्गुरुर्लघुरपीप्सितदायिमन्त्रः प्राग्दौस्थ्यभाविधनविघ्नभिदेनकिंस्यात् निर्मायार्हतबिम्बमार्हतपदस्थानाग्रिमं धार्मिकः, स्वात्मानं च परं च निर्मलयति स्तुत्यर्चनावन्दनैः / मन्त्री श्रेणिकसूरिवार्द्रकसुतं मोहान्धकारे स्थितं, दीपः पुष्यति कस्य कस्य न मुदं श्रेयः श्रियामास्पदम् // 59 // तीर्थं मुदे स्वपरयोरपि कीर्तिपालभूपालकारिततुरङ्गमबोधवत् स्यात् / उद्यानसारसहकारवनं फलद्धय, किं वप्तुरेव न पुनस्तदुपासकानाम्६० शुष्टा 76