________________ द्वितीयद्वीपान्तर्गतभरतमाक्रान्तजलधिन किं द्रौपद्यर्थे हरिरमरकङ्कापुरमगात् // 43 // भोगोपभोगनियमोऽपि शिवाय चेन्न, स्याद्वङ्कचूल इव देवपदप्रदस्तु / प्रीणाति चातकमनन्यरतं पयोदश्चुताशनैकरसमन्यभृतं वसन्तः॥ 44 // भोगादिलोलुपतया लघुता न शर्म, श्रीब्रह्मदत्तसखिविप्रकुटुम्बवत् स्यात् पीताधिकेन्दुरुचिरुज्झति सीम सिन्धुः, शक्रोऽपि गौतमकलत्ररतश्च शप्तः नानर्थदण्डमघदं दधते महान्त, एकेषुमात्रविजयीव स चेटभूपः / लोकस्य जाड्यहंतये तरणेः प्रभाह्नि, तापच्छिदे च शशिनो निशि नो तदत्य // 46 // मूढो मुधैति कुगति धिगनर्थदण्डात् चक्रित्वमिच्छुरिव भूभृदशोकचन्द्रः / किं नाङ्गभङ्गमयते शरभोऽब्दशब्दमभ्युत्पतन् परिणमंश्च गजोऽनुशैलम् // 47 // सामायिकं द्विघटिकं चिरकर्मभेदि, चन्द्रावतंसकवदुच्चधियोऽत्र किं तु / स्पर्शेऽपि सत्यमुदकं मलिनत्वनाशि, घोरं तमो हरति वा कृत एव दीपः सामायिकं समतयारिसुहृत्सुसिद्ध्यै, प्रद्योतमुक्तिकृदुदायनराजवत् स्यात् सच्चन्दनांशुकमिवास्फुटकुष्ठभाजस्लत्कुर्वतः कपटतो बहिरङ्गशुद्ध्यै 49 देशावकाशिकमपास्य सकाकजङ्घकोकाशवद्विपदमेति जनः प्रमादी। धत्ते प्रभां दिनचरो न निशाकरोऽपि न स्तूयतेऽपि च पयोभृदकालवृष्टः गुरुवचनवियोगाज्ञातदेशावकाशो, विपदि तरतिं पुण्याच्चेद्यथा लोहजङ्घः / हयमयवृषभा वा स्वामिना वाह्यमानाः, . सततममितगत्या किं हितं स्वस्य कुर्युः // 51 // 05