________________ चक्रेऽर्चाविधुरो विरञ्चिरनृतात् केतक्यनिष्टा मृषा .. साक्ष्यात्किं न हरिभवेन महितःसत्यात्परीक्षाक्षणे // 35 // वैराग्यशस्त्रहतमोहतमोऽमलान्तदृष्ट्यापदिष्टपरिदृष्टहिताहितार्थः / चौरोऽपि शुद्ध्यति शमेन दृढप्रहारीवापैति वा दवजवो जलदेन किं न नानाकलाविदपि लाघवमेति चौर्याद्विद्यानताम्रफलचौर इव प्रियार्थे दोषोमहानधिगुणेऽपिहिलाञ्छनायरत्नाकरेकुजलवच्छशवत्सुधांशौ स्युर्ब्रह्मणानृसुरमोक्षसुखानिकिंतु, जम्बूमुनेः सुभगताभिनवैवकाचित् भेजुव॑तंसममनेनमुदाप्रियास्ता, अन्यारतांसहजगामचकेवलश्रीः न ब्रह्मतः सकलशर्मकृतश्चलन्ति, धीराः सुदर्शन इव व्यसने घनेऽपि / शेषोऽब्धिवृद्धलहरीचलशैलवल्गद्भभुग्नमौलिरपि विश्वभरं बिभर्ति३९ विश्वोपकारि धनमल्पमपि प्रशस्यं, किं नन्दवत् फलममानपरिग्रहेण / प्रीत्यै यथा हिमरुचिर्न तथा हिमोघः, स्याद्वा यथाऽत्र जलदो जलधिस्तथा न धन्यः परिग्रहमितैः सुखभाग् न पापी, प्राङ्मम्मणो वणिगिवैधहदीश्वरोऽपि / वन्द्यः कृतादरमहो जगतो मितश्री:, पश्याधिकाधिकवसुः शशभृत् कलङ्की // 41 // सीमस्थिते जलनिधौ निजकालमाने, शीतातपाम्भसि च जीवति जीवलोकः / दिग्यानमानमपि जन्तुहिताय तद्वत्, स्याच्चारुदत्तवदिहाप्रयतोऽतिदुःखी // 42 // न गम्यं नागम्यं क्वचिदकृतदिग्यानविरतेः, कथं वा स्याद्विश्वे सततगतिरेकत्र वसतिः / // 40 // 74