________________ // 29 // // 30 // // 31 // साधोरह्राय सिद्धिः सुचरणकरणैः श्रावकस्यापि हि स्यान् मध्येऽष्टानां भवानां शशिविशदगुणानन्दना नन्दवृत्तैः / चेन्नौभिः शीघ्रगाभिर्जलधिजलपथैस्तीरदेशेषु पान्थाः / केचिद्यात्याशु नान्ये हयकरभरथैर्भूपथैः किं क्रमेण सम्यक्त्वोदारतेजा नवनवफलदावर्तरूपव्रतालिः सिद्धान्तोक्तैकविंशत्यमलगुणगतिः श्राद्धधर्मस्तुरङ्गः / प्रापप्यान्तं भवाब्धेर्नयति शिवपुरं कामदेवादिवत्तत्, मिथ्यात्वाधीशशङ्कादिकहयहरतो यत्नतो रक्षणीयः अक्षुद्रो रुपसौम्यो विनयनययुतः क्रूरताशव्यमुक्तो, मध्यस्थो दीर्घदर्शी परहितनिरतो लब्धलक्षः कृतज्ञः / सद्दाक्षिण्यो विशेषी सदयगुणरुचिःसत्कथः पक्षयुक्तो, वृद्धार्हो लज्जनो यः शुभजनदयितो धर्मरत्नस्य योग्यः धर्माणां गुरुरेव जन्तुषु दयाधर्मस्ततो संस्थितः, .." श्रीवज्रायुद्धचक्रवर्तिसदृशां नो संगमादेर्हदि।. चूलायां कनकाचलस्य रमते कल्पद्रुमो नो मरौ / किं चैरावणवारण: कुनृपतेद्वरिऽस्ति यः स्व:पतेः एका जीवदयैव नित्यसुखदा तन्नेमिना स्वामिना, कन्याराज्यधनादि फल्गुतृणवत् संत्यज्य सैवाहता। सोऽर्हन्वास्य किमुच्यते निजहिते नान्योऽपि मन्दायते, किं कस्याप्यजरामरत्वमथवा नेष्टं सुखं शाश्वतम् संकटेऽपि न महान् मृषा वदेद्दत्तमातुलककालिकार्यवत् / चन्दनः सुरभिरश्मघर्षणेऽपीक्षुरद्भुतरसोऽपि पीलने घोरां दुर्गतिमेत्यलीकलवमप्यभ्यर्थितोऽपि ब्रुवन, वादे नारदपर्वताख्यसुहृदोर्यद्वद्वसुर्भूपतिः। . // 32 // // 33 // // 34 // 73