________________ करीरपिचुमन्दवन्न घनसारसच्चन्दना घना न च खरोष्ट्रवज्जयतुरङ्गभद्रद्विपाः // 20 // विज्ञाय धन्या जिनधर्ममर्म रज्यन्ति शय्यंभववन्न जाड्ये। पीत्वा सिताभावितधेनुदुग्धं, को वाम्लतकार्कपयांसि पश्येत्॥ 21 // लब्धे जडः कोऽपि हितेऽपि धर्मे स्तौत्यक्षसौख्यानि शशीव राजा। . न पङ्कजं भेक उपैति पङ्क क्रमेलको नाम्रमियति निम्बम्।। 22 // अष्टाब्दोऽपि तथाविधव्रततप:स्वाध्यायकृत्यासहोऽप्युच्चानबलेन कर्मरिपुभिर्मुक्तोऽतिमुक्तो मुनिः शक्त्या गच्छत तन्न किं हितपथं मुक्त्वा प्रमादोत्तरं श्रूयन्ते च मदालसातनुभुवो बाल्येऽपि योगोज्वलाः // 23 // शीलं तपश्च बलदेवमुनिश्चरित्वा दानं प्रदाय रथकृत्रितयेऽप्यशक्तः / एणो मुदा तदनुमोदनया सूरोऽभूद्योगाद्धि सिद्धिमगमच्चतुरङ्गितांहि:२४ शमेन सिद्ध्यन्ति मतानि कृष्णानुजर्षिवत्तीव्रतपोऽस्तु वा मा। दिनाधिनाथेन कृतेऽन्नपाके संधुक्षणं कः कुरुतेऽनलस्य // 25 // प्रीत्यै शमी स्वपरयोरपि चण्डरुद्रशिष्यो यथात्मनि गुरावपि केवला सप्तर्षिसङ्गतिमवाप्य विशाखनामा, चौरोऽप्यभूद्विलसदुज्वलदिव्यशक्तिः व्रतमपि बहुचीर्णं सातिचारं कुगत्यै, दिनमपि शुचि मुक्त्यै कण्डरीकादिवत्तत् / अहह दहति चित्रावारिपूरोऽपि शस्यं भृशमपि कृशपाथः स्वातिजं पाति जन्तून् // 27 // व्रतेन शुचिनापि किं किमथ सद्गुरूपासनैरुदायिनृपमारक श्रमणवत्सपापात्मनः / शिरस्थविषहन्मणिः फणिगणः किमानन्दनः, स चन्दनवनस्थितः किमथवा जगत्तापहृत् // 28 //