________________ जीवादितत्त्वविकलैर्विपुलैस्तपोभिर्मुक्तो न तामलिरजातसुसाधुसङ्गः / कः स्वर्णसिद्धिमधिगच्छति कूटकल्पै: कोवाम्बुधि तरति जर्जरयानपात्रैः गिरिपुष्पशुकाविवामलोङ्गी, गुणनाशोदयभाग् जडज्ञसङ्गात् / जलदाम्बु विषं सुधा च न स्यात्, कनकाद्रौ च किमिक्षुकानने च१२ प्राप्याल्पमप्यमलबोधवचश्चिलातीपुत्रो यथाघमलिनोऽपि बिभर्ति शुद्धिम् किं कोटिवेधिरसचन्दनरत्नबिन्दुस्पर्शेऽपि हेमशिशिरं च न तप्तलोहम् 13 द्वेषेऽपि बोधकवचःश्रवणं विधाय स्याद्रौहिणेय इव जन्तुरुदारलाभः / क्वाथोऽप्रियोऽपि सरुजां सुखदो रविर्वा संतापकोऽपि जगदङ्गभृतां हिताय कोऽप्यन्य एव महिमा ननु शुद्धदृष्टे र्यच्छेणिकोह्यविरतोऽपि जिनोऽत्र भावी / पुण्यार्गलः किमितरोऽपि न सार्वभौमो, रूपच्युतोऽप्यधिगुणस्त्रिजगन्नतश्च . // 15 // तदर्शनं किमपि सा सुलसाप येन प्रादाग्जिनोऽपि महिमानममानमस्यै / नैर्मल्यतः शशिकला न च केतनीत्वं मालातुलां च हरमूर्ध्नि बभार गङ्गा दूरेऽर्हतोऽस्तु महनादि नतीच्छयाऽपि, श्रेयःसुरोऽजनि न सेडुकद१रः किम् / कल्पद्रुमः स्मरणतोऽपि न किं फलाय, पार्श्वेऽपि वा मृगमदो न हि सौरभाय // 17 // ध्यातः परोक्षेऽपि जिनस्त्रिशुद्ध्या जीर्णाभिधश्रेष्टिवदिष्टसिद्ध्यै / सिन्धुप्रवृद्ध्यै कुमुदोघलक्ष्यै चकोरतुष्टयै विधुरभ्रगोऽपि // 18 // नव्यो गुरुः सुरतरुर्विहितामितर्द्धिर्यत्केवलाय कवलार्थिषु गौतमोऽभूत्। . तापातुरेऽमृतरसः किमु शैत्यमेव नाप्रार्थितोऽपि वितरत्यजरामरत्वम्१९ कुबोधमतयोऽभितः कुगुरवो ज़माल्यादिवत्, पुनः क्वचन वज्रवत्सुगुरवोऽमला जन्मतः /